Enter your Email Address to subscribe to our newsletters

फतेहाबादनगरम्, २३ मे-मास: (हि.स.)। भारतीय-जनता-पक्षेन फतेहाबाद-जनपदे कार्यकर्तृभ्यः कृते अग्रोहा-शक्तिपीठे द्विदिवसीयं पण्डित-दीनेदयाल-उपाध्याय-प्रशिक्षण-शिविरम् आयोजितम्। शनिवासरे प्रथम-दिने कार्यक्रमे हरियाणा-राज्यस्य मन्त्रिमण्डलस्य मन्त्री कृष्ण-बेदी मुख्यातिथिरूपेण भागं गृहीतवान्, तथा च अध्यक्षतां जनपदाध्यक्षेण अधिवक्त्रा प्रवीण-जोड़या कृतम्। अस्मिन् अवसरे पूर्व-मन्त्रिमण्डलमन्त्री देवेन्द्र-बबली, पूर्व-विधायकः दुड़ारामः, जिला-प्रभारी सुरेन्द्र-आर्यः इत्यनेन च सह अनेके वरिष्ठ-नेतारः मंचे उपस्थिताः आसन्। कार्यक्रमस्य आरम्भः दीपप्रज्वलनेन, वन्दे-मातरम्-गीतगानेन, वर्गगीतस्य च गायनेन अभवत्।
शिविरं सम्बोधयन् मुख्यातिथिः कृष्ण-बेदी उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदी तथा हरियाणा-राज्यस्य मुख्यमंत्री नायब-सिंह-सैनी इत्येतयोः नेतृत्वे भाजपा-सर्वकारः भेदभावं विना निर्धनानां, कृषकाणां, श्रमिकाणां, यूनां, महिलानां च कल्याणाय कार्यं करोति। सः कार्यकर्तृभ्यः सरकारस्य जनहितकारी-योजनाः गृहं गृहं यावत् प्रापयितुं आह्वानं कृतवान्, तथा च उक्तवान् यत् इदं शिविरं संघटनस्य वैचारिक-सुदृढीकरणाय महत्त्वपूर्णं माध्यमम् अस्ति।
प्रथम-दिने विविधेषु सत्रेषु वरिष्ठ-नेतृभिः कार्यकर्तारः प्रशिक्षिताः। अस्मिन् मध्ये मदन-गोपालेन ‘विचार-परिवारः’, मुकेश-गौड़ेन ‘वैचारिक-अधिष्ठानम्’, प्रवीण-जैनेन ‘निर्वाचन-प्रबन्धनम्’, डॉ.सतीश-पूनिया जवाहर-सैनिना च ‘इतिहास-विकासः तथा राष्ट्रस्य समक्षे समस्या:’ इति विषयेषु व्याख्यानानि दत्तानि।
जनपदाध्यक्षः प्रवीण-जोडा कार्यकर्तृभ्यः सम्बोधयन् उक्तवान् यत् भाजपा एकं विचारधाराधारितं संघटनम् अस्ति, कार्यकर्तारः एव अस्य वास्तविक-शक्तिरेव। सः अनुशासनस्य राष्ट्रवाद-भावनायाः च सह समाजस्य अन्तिम-व्यक्तिं यावत् सर्वकारस्य नीतिनां लाभं प्रापयितुं आग्रहं कृतवान्।
अस्मिन् प्रशिक्षण-शिविरे वर्ग-संयोजकः विकास-लालोदा, जनपद-महामन्त्री अशोक-जाखड़ः, उपाध्यक्षः इन्द्र-गावड़ी, भीम-लांबा, सविता-टुटेजा, सुमन-खीचड़ इत्यादिभि: सह सर्वे मण्डलाध्यक्षाः, मोर्चा-अध्यक्षाः तथा बहुसंख्यकाः पदाधिकारी-कार्यकर्तारः उपस्थिताः आसन्। प्रथम-दिनस्य सत्रेषु कार्यकर्तृषु महत् उत्साहः दृष्टः।
Hindusthan Samachar / Divya Ranjan