पीवीयूएनएलद्वारा फ्लाई ऐश इत्यस्य प्रथमगणः असमाय प्रस्थितः
रामगढ़म्, 23 मईमासः (हि.स.)। पतरातूविद्युत् उत्पादननिगमलिमिटेड् (पीवीयूएनएल्), पतरातुना शनिवासरे ४००० टनपरिमितायाः फ्लाईऐशस्य प्रथमम् ऐशरेकं मे. स्टारसीमेंट्, टेटेलिया, असमप्रदेशाय प्रेषितम्। एतत् स्थानं पतरातूतः प्रायः १२४३ किलोमीटरदूरस्थम् अस्
रेक को हरी झंडी दिखाते सीईओ


रामगढ़म्, 23 मईमासः (हि.स.)।

पतरातूविद्युत् उत्पादननिगमलिमिटेड् (पीवीयूएनएल्), पतरातुना शनिवासरे ४००० टनपरिमितायाः फ्लाईऐशस्य प्रथमम् ऐशरेकं मे. स्टारसीमेंट्, टेटेलिया, असमप्रदेशाय प्रेषितम्। एतत् स्थानं पतरातूतः प्रायः १२४३ किलोमीटरदूरस्थम् अस्ति। विशेषतया उल्लेखनीयम् आसीत् यत् पीवीयूएनएल् संस्थायां प्राप्तः कोयलारेकः एव बैकलोडिङ्गमाध्यमेन फ्लाईऐशपरिवहनार्थम् उपयुज्यत। अनेन संसाधनानां समुचितः सदुपयोगः अभवत्।

अस्य ऐतिहासिकावसरे रेकं पीवीयूएनएल् संस्थायाः मुख्यकार्यपालकाधिकारी ए.के. सहगल महोदयेन हरितध्वजं प्रदर्श्य प्रेषितम्। अस्मिन् अवसरे अनुपममुखर्जी, सीजीएम् (प्रोजेक्ट्), मनीषखेतरपालः, जीएम् (ओ एण्ड एम्), ओमप्रकाशसोलङ्की, जीएम् (मेंटेनेंस् एवं एडमिनिस्ट्रेशन), पीवीयूएनएल् संस्थायाः अन्ये वरिष्ठाधिकारिणः तथा मे. स्टारसीमेंट् संस्थायाः प्रतिनिधयः उपस्थिताः आसन्।

मुख्यकार्यपालकाधिकाऱिणा उक्तं यत् एषा प्रयत्नः पीवीयूएनएल् संस्थायाः विकासाय तथा कार्बनफुटप्रिन्ट् न्यूनीकरणस्य प्रतिबद्धतां पुनः दृढां करोति। रेलरेकस्य माध्यमेन ४००० टनपरिमितायाः फ्लाईऐशस्य परिवहनेन प्रायः १५,००० लीटरपरिमितस्य डीजल इत्यस्य बचतः अभवत्, यत् सामान्यतया ऐशपदार्थस्य डिस्पोजलसाइट्पर्यन्तं परिवहनार्थम् उपयुज्यते स्म। अनेन न केवलं पर्यावरणसंरक्षणस्य प्रोत्साहनं भविष्यति, अपितु ऊर्जासंसाधनानामपि महत्वपूर्णा बचतः भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani