देशे पेट्रोल-डीजल-इत्यनयोः कापि समस्या नास्ति, केषुचित् स्थानेषु स्थानीय-समस्या वर्तते - आईओसी
नवदिल्ली, २३ मे-मास: (हि.स.)। पश्चिम-एशिया-प्रदेशे प्रवर्तमानस्य सङ्कटस्य मध्ये सार्वजनिक-क्षेत्रस्य तैल-गैस-विपणन-संस्था इण्डियन-ऑयल-कार्पोरेशन (आईओसी) शनिवासरे देशे पेट्रोल-डीजलयोः कस्यापि न्यूनतायाः अस्तित्वं निराकृतवती। संस्थया ‘एक्स्’ इति साम
इंडियन ऑयल के जारी लोगो का प्रतीकात्मक चित्र


नवदिल्ली, २३ मे-मास: (हि.स.)। पश्चिम-एशिया-प्रदेशे प्रवर्तमानस्य सङ्कटस्य मध्ये सार्वजनिक-क्षेत्रस्य तैल-गैस-विपणन-संस्था इण्डियन-ऑयल-कार्पोरेशन (आईओसी) शनिवासरे देशे पेट्रोल-डीजलयोः कस्यापि न्यूनतायाः अस्तित्वं निराकृतवती।

संस्थया ‘एक्स्’ इति सामाजिक-माध्यमे प्रकाशिते संदेशे देशे पेट्रोल-डीजलयोः समग्र-न्यूनतां निराकुर्वता उक्तं यत् केषुचित् पेट्रोल-पम्पेषु इन्धन-अभावसम्बद्धाः वार्ताः “अत्यन्तं स्थानीयाः” अस्थायि-स्वभावस्य च सन्ति, याः क्षेत्रीय-माङ्ग-आपूर्ति-असन्तुलनस्य तथा विक्रय-प्रारूपे परिवर्तनस्य परिणामः सन्ति। कम्पन्या उक्तम्— “इण्डियन-ऑयल अन्याभिः तैल-विपणन-निर्माणिभिः सह मिलित्वा देशव्यापि पेट्रोल-डीजलयोः पर्याप्तं भण्डारं आपूर्तिं च धारयति।”

आईओसी इत्यनेन उक्तं यत् केषुचित् पेट्रोल-पम्प-इत्येतेषु वर्धित-याचनायाः कारणं सस्य-कर्तन-समये डीजल-उपभोगस्य ऋतुगत-वृद्धिः, अपेक्षया अधिक-मूल्ययुक्तेभ्यः निजी-पेट्रोल-पम्पेभ्यः ग्राहकाणां सार्वजनिक-क्षेत्रस्य पम्प-इत्येतेषु स्थानान्तरणम्, तथा वैश्विक-मूल्यानुसारं थोक-इन्धन-मूल्यवृद्धेः कारणेन संस्थागत-क्रयस्य वृद्धिः च अस्ति। कम्पन्या उक्तं यत् इण्डियन-ऑयलस्-इत्यय खुद्रा-विक्रय-केन्द्राणि पूर्णतया सामान्य-रीत्या कार्यं कुर्वन्ति। इन्धनस्य उपलब्धता सामान्यास्ति, आपूर्तिः अपि स्थिरा वर्तते। अस्मिन् विषये कापि चिन्ता व्यवधानं वा नास्ति।

आईओसी इत्यनेन उक्तं यत् एषा सूचना हरियाणा-प्रदेशस्य अस्माकं नियमित-ग्राहकात् प्राप्ता। निर्माण्या उक्तं यत् प्रत्येकं सुगम-यात्रायाः पृष्ठे अस्माकं कर्मचारिणां समर्पणं वर्तते, ये एतत् सुनिश्चितं कुर्वन्ति यत् यदा यत्र च आवश्यकता भवति तदा तत्र इन्धनम् उपलब्धं भवेत्। एक-मे-मासात् द्वाविंशति-मे-मास-पर्यन्तं पेट्रोल-विक्रये वार्षिक-आधारेण १४ प्रतिशत-वृद्धिः अभिलिखिता, यदा तु डीजल-विक्रये प्रायः १८ प्रतिशत-वृद्धिः अभवत्। एषा वृद्धिः निरन्तरां अत्यधिकां च याचना-वृद्धिं दर्शयति, यां कम्पनी देशव्यापि पूरयति।

आईओसी इत्यनेन उक्तम्— “वयं ग्राहकान् सामान्य-जनान् च आश्वासयितुम् इच्छामः यत् देशे पेट्रोल-डीजलयोः कापि समग्र-न्यूनता नास्ति। केषुचित् खुद्रा-विक्रय-केन्द्रेषु दृश्यमााना स्थितिः अत्यन्तं स्थानीयाऽस्थायिनी च अस्ति, या स्थानीय-याचना-आपूर्ति-असन्तुलनस्य तथा चयनित-क्षेत्रेषु विक्रय-प्रवृत्तेः पुनः सन्तुलनस्य कारणेन उत्पन्ना अस्ति।”

निर्माण्या: अनुसारं इण्डियन-ऑयल-इत्यस्य ४२,००० अधिक-पेट्रोल-पम्प-जाले अत्यल्पेषु स्थानेषु एव आपूर्ति-बाधा अभवत्, यदा तु अधिकांश-पम्पेषु भण्डारम् आपूर्तिः च सामान्यं पर्याप्तं च वर्तते। सर्वकारी-तैल-विपणन-निर्माण्या: देशव्यापि पर्याप्तम् इन्धन-भण्डारं धारयन्ति तथा विभिन्न-क्षेत्रेषु उत्पन्नानां सीमित-बाधानां निवारणाय निर्बाध-आपूर्तेः सुनिश्चित्यर्थं च आवश्यकानि पदानि गृह्णन्ति।

Hindusthan Samachar / Divya Ranjan