मुख्यमंत्रिणो हेमंतस्य आदेशः, सर्वेषां सर्वकारीकार्यालयेभ्यो बहिः करणीया पेयजलव्यवस्था
रांची, 23 मईमासः (हि.स.)। झारखण्डसर्वकारेण राज्ये निरन्तरं वर्धमानां उष्णतायाः स्थितिं च दृष्ट्वा महत्त्वपूर्णानि निर्देशानि निर्गतानि। सर्वेषां जिलानां आरक्ष्यधीक्षकः,, आरक्षिस्थानप्रभारी, चिकित्साधिकारी, खंडाधिकारी, पंचायतप्रतिनिधयः तथा शासकीय
फाइल फोटो मुख्यमंत्री


रांची, 23 मईमासः (हि.स.)।

झारखण्डसर्वकारेण राज्ये निरन्तरं वर्धमानां उष्णतायाः स्थितिं च दृष्ट्वा महत्त्वपूर्णानि निर्देशानि निर्गतानि। सर्वेषां जिलानां आरक्ष्यधीक्षकः,, आरक्षिस्थानप्रभारी, चिकित्साधिकारी, खंडाधिकारी, पंचायतप्रतिनिधयः तथा शासकीयकार्यालयाः स्वकार्यालयानां बहिः सार्वजनिकस्थलेषु च सामान्यजनानां कृते पेयजलस्य समुचितव्यवस्थां सुनिश्चितुं निर्देशिताः।

एतेन सह पेयजलव्यवस्थया सम्बद्धा स्पष्टसूचनापि प्रदर्शयितुं निर्देशः दत्तः, येन मार्गचारिणः सामान्यजनाश्च रक्षणं प्राप्तुं शक्नुयुः। सर्वे उपायुक्ताः एतत् सुनिश्चितुं निर्देशिताः यत् यत्र कुत्रापि जलसंकटस्य स्थितिः भवेत्, तत्र तत्क्षणमेव टैंकरमाध्यमेन जलापूर्तिः क्रियेत।

तथा च भग्नचापाकलानां जीर्णोद्धायःअन्यवैकल्पिकव्यवस्थाश्च शीघ्रमेव क्रियेरन्। मुख्यमन्त्री हेमन्तसोरेणः शनिवासरे सामाजिकमाध्यमे एक्स् इत्यत्र लिखितवान् यत् कस्मिन्नपि ग्रामे, टोले अथवा मोहल्ले पेयजलाभावकारणात् जनानां कष्टं न भवेत्। एषा प्रशासनस्य सम्बद्धविभागानां च सामूहिकजिम्मेदारी अस्ति।

मुख्यमन्त्रिणा भीषणघर्मदशायां प्रशासनं प्रति पूर्णसंवेदनशीलतया, तत्परतया मानवीयदृष्टिकोणेन च कार्यं कर्तुं निर्देशः दत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani