पश्चिमबङ्गे स्वास्थ्यसेवानां सुदृढीकरणाय केन्द्र-सर्वकारः सर्वां सम्भाव्यमानां सहायतां दास्यति - जे.पी.नड्डा
नवदिल्ली, २३ मे-मास: (हि.स.)। केन्द्रीय-स्वास्थ्य-मन्त्री जे.पी.नड्डा उक्तवान् यत् पश्चिमबङ्ग-राज्यस्य स्वास्थ्य-सेवानां सुदृढीकरणाय केन्द्र-सरकारः सर्वां सम्भाव्यमानां सहायतां प्रदास्यति। सः शनिवासरे पश्चिमबङ्गस्य स्वास्थ्य-सेवानां तथा केन्द्र-सर्
पश्चिम बंगाल के मुख्यमंत्री ने केन्द्रीय स्वास्थ्य मंत्री जे पी नड्डा के साथ वीडियो कॉन्फ्रेंसिंग माध्यम से बैठक की


नवदिल्ली, २३ मे-मास: (हि.स.)। केन्द्रीय-स्वास्थ्य-मन्त्री जे.पी.नड्डा उक्तवान् यत् पश्चिमबङ्ग-राज्यस्य स्वास्थ्य-सेवानां सुदृढीकरणाय केन्द्र-सरकारः सर्वां सम्भाव्यमानां सहायतां प्रदास्यति। सः शनिवासरे पश्चिमबङ्गस्य स्वास्थ्य-सेवानां तथा केन्द्र-सर्वकारस्य प्रमुख-स्वास्थ्य-योजनानां प्रगतेः समीक्षा-हेतोः आयोजिते उच्चस्तरीय-वर्चुअल-सभायां इदं उक्तवान्।

अस्यां सभायां पश्चिमबङ्गस्य मुख्यमन्त्री सुवेन्दु-अधिकारी अपि उपस्थितः आसीत्।सभायां राष्ट्रीय-स्वास्थ्य-अभियानं, प्रधानमन्त्री-आयुष्मान-भारत-स्वास्थ्य-अवसंरचना-अभियानं तथा अन्य-स्वास्थ्य-योजनानां राज्ये प्रभावी-क्रियान्वयनं विषये विस्तरेण चर्चा अभवत्। स्वास्थ्य-संरचनायाः सुदृढीकरणं, मातृ-शिशु-स्वास्थ्य-सेवानां सुधारः, टीकाकरण-अभियानस्य तीव्रीकरणं, क्षयरोग-उन्मूलनं तथा असंचारी-रोगाणां समये परीक्षण-चिकित्सा इत्यादिषु विषये विशेषं बलं प्रदत्तम्।

अस्मिन् अवसरे मन्त्री नड्डा उक्तवान् यत् वित्त-वर्षस्य २०२६-२७ कृते पश्चिमबङ्ग-राज्याय राष्ट्रीय-स्वास्थ्य-अभियान-योजनायां अन्तर्गतं आहत्य ३,५०५.५९ कोटि-रूप्यकाणि आवंटितानि सन्ति। तेषु प्रथम-पर्यायरूपेण ५२७.५८ कोटि-रूप्यकाणि राज्याय पूर्वमेव प्रदत्तानि। सः राज्य-सरकारं प्रति अपि निर्देशं दत्तवान् यत् पीएम-एबीएचआईएम तथा १५तम-वित्त-आयोग-अन्तर्गत-स्वास्थ्य-अनुदानस्य शीघ्रं प्रभावी-उपयोगः सुनिश्चितः भवेत्।

केन्द्रीय-मन्त्री उक्तवान् यत् मातृ-मृत्यु-दरः, नवजात-मृत्यु-दरः तथा पञ्चवर्ष-आयु-निम्न-बालकानां मृत्यु-दरः इत्यादिषु स्वास्थ्य-सूचकाङ्केषु निरन्तरं सुधारः आवश्यकः अस्ति। सीमावर्ती-क्षेत्रेषु विशेषतया सुदृढ-निगरानी तथा उत्तम-स्वास्थ्य-सेवा-प्रदानं प्रति अपि सः बलं दत्तवान्।

सभायां आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य-योजनायाः पश्चिमबङ्गे क्रियान्वयनार्थं सन्धि-ज्ञापनस्य विषये अपि चर्चा अभवत्। केन्द्र-राज्य-सर्वकारौ मिलित्वा सुलभ-सुलभा-गुणवत्तायुक्त-स्वास्थ्य-सेवां प्रदातुं प्रतिबद्धतां पुनः प्रतिपादितवन्तौ। “टीबी-मुक्त-भारत-अभियान” तीव्रतया अग्रे नेतुं विषये अपि चर्चा कृता। मन्त्री नड्डा उक्तवान् यत् टीबी-उन्मूलनाय व्यापक-स्क्रीनिङ्ग, नियमित-निरीक्षणं तथा जिला-स्तरीय-कठोर-निरीक्षणं आवश्यकम् अस्ति। सः एचपीवी-टीकाकरण-अभियानस्य शीघ्र-प्रारम्भाय अपि राज्य-सर्वकारं आग्रहं कृतवान्।

Hindusthan Samachar / अंशु गुप्ता