Enter your Email Address to subscribe to our newsletters



नवदिल्ली, २३ मे-मासः (हि.स.)। केरल-राज्यस्य नवनिर्वाचितः मुख्यमन्त्री वीडी-सतीशनः शनिवासरे नव-दिल्ल्यां काँग्रेस-दलस्य शीर्ष-नेतृभिः सह समागमं कृतवान्। मुख्यमन्त्री-पदग्रहणानन्तरम् एषः तस्य प्रथमः दिल्ली-प्रवासः आसीत्। अस्मिन् अवसरे तेन काँग्रेस-अध्यक्षेन मल्लिकार्जुन-खरगेण, काँग्रेस-संसदीय-दलस्य अध्यक्षा सोनिया-गान्धिना, लोकसभायाः प्रतिपक्ष-नेता राहुल-गान्धिना तथा वायनाड-क्षेत्रस्य सांसद् प्रियंका-गान्धी-वाड्रा इत्यनया सह साक्षात्कारं कृत्वा विविध-राजनैतिक-साङ्घटनिक-विषयेषु चर्चा कृता।
दिल्ली-नगरं प्राप्य सतीशनः प्रथमं काँग्रेस-दलस्य महासचिवेन (सङ्घटन) केसी-वेणुगोपालेन सह तस्य निवासे समागमनं कृतवान्। ततः अनन्तरं सः काँग्रेस-अध्यक्षस्य मल्लिकार्जुन-खरगे-इत्यस्य निवासं गतवान्, यत्र खरगेण तस्मै पारम्परिक-पट्टकं परिधाप्य सम्मानं कृतं तथा मुख्यमन्त्री-पद-ग्रहणस्य शुभकामनाः प्रदत्ताः।
ततः परं सतीशनः सोनिया-गान्धिना, राहुल-गान्धिना तथा प्रियंका-गान्धी-वाड्रा इत्यनया सह पृथक्-पृथक् समागमं कृतवान्। दलस्य सूत्रानुसारं, अस्मिन् अवसरे केरलस्य राजनीतिक-स्थितेः, राज्य-सर्वकारस्य प्राथमिकतानां तथा दल-सङ्घटन-संबद्ध-विषयाणां विषये विस्तरेण चर्चा अभवत्। काँग्रेस-नेतृत्वेन सतीशनाय नूतन-उत्तरदायित्वस्य कृते अभिनन्दनं प्रदाय राज्ये शासनस्य सफल-सञ्चालनाय शुभाशंसाः प्रदत्ताः।
मुख्यमन्त्री सतीशनः काँग्रेस-नेतृत्वाय राज्य-सर्वकारस्य प्रारम्भिक-योजनानां प्रशासनिक-प्राथमिकतानां च विषये अपि सूचनां प्रदत्तवान्। अग्रिम-दिनेषु केरल-सर्वकारस्य कार्ययोजना-साङ्घटनिक-समन्वययोः विषये दल-नेतृत्वेन सह निरन्तरः संवादः भविष्यतीति मन्यते।
अस्मात् पूर्वं सतीशनः शुक्रवासरस्य रात्रौ विलम्बेन दिल्ली-नगरं प्राप्तवान् तथा केरल-भवने न्यवसत्। तस्य अयं दिल्ली-प्रवासः काँग्रेस-सङ्घटनस्य राज्य-सर्वकारस्य च मध्ये उत्तम-समन्वयस्य दिशि महत्त्वपूर्णः इति मन्यते।
उल्लेखनीयम् अस्ति यत् वीडी-सतीशनः १८ मे-मासे तिरुवनन्तपुरस्य सेन्ट्रल-स्टेडियम-स्थले राज्यपालात् राजेन्द्र-विश्वनाथ-आर्लेकरात् पद-गोपनीयतयोः शपथं गृहीतवान्। सः केरल-राज्यस्य त्रयोदशः मुख्यमन्त्री अभवत्। तेन सह अन्ये विंशतिः मन्त्रिणः अपि शपथ-ग्रहणं कृतवन्तः।
शपथ-ग्रहण-समारोहे काँग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे, राहुल-गान्धी, प्रियंका-गान्धी-वाड्रा इत्येतै: सह दलस्य अनेके वरिष्ठ-नेतारः उपस्थिताः आसन्। एतदतिरिक्तं कर्नाटकस्य मुख्यमन्त्री सिद्धरामय्या, उपमुख्यमन्त्री डीके-शिवकुमारः, तेलङ्गाणस्य मुख्यमन्त्री रेवन्त-रेड्डी तथा हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दर-सिंह-सुक्खू अपि समारोहे सम्मिलिताः आसन्।
केरल-राज्ये काँग्रेस-नेतृत्वयुक्तस्य संयुक्त-लोकतान्त्रिक-मोर्चा (यूडीएफ) इत्यस्य शासनं प्रायः दश-वर्षाणां अनन्तरं पुनः सत्तायां प्रत्यागतम्। एष: विजयः काँग्रेस-दलस्य कृते दक्षिण-भारते महती राजनैतिक-सफलता इति मन्यते।
Hindusthan Samachar / Divya Ranjan