Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 मईमासः (हि.स.) : पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्द्वधिकारी राज्यस्य बहुचर्चितनियुक्तिघोटालाविषये महत्त्वपूर्णां टिप्पणीं कृतवान्। शनिवासरे सियालदह-नगरे सरकारीपहलया आयोजिते रोजगारमेले उपस्थित्य मुख्यमन्त्री उक्तवान्, “नियुक्तिभ्रष्टाचारस्य कारणेन अस्माकं राज्यस्य पर्याप्ता बदनामी अभवत्। पश्चिमबङ्गात् जनानां बहवः अपेक्षाः आसन्, किन्तु गतकेषु वर्षेषु सर्वं नष्टं जातम्। पश्चिमबङ्गं अस्य दुष्टछवितः बहिः आनयितव्यं भविष्यति।”
अस्मिन् दिने नियुक्तिप्रक्रियाविषये शुभेन्द्वधिकारी अनेकाः घोषणाः अपि कृतवान्। सः उक्तवान्, “विधानसभायाः अग्रिमसत्रे नियुक्तिसम्बद्धः नूतनः नियमः आनयिष्यते। नूतनसंतत्या स्वप्नानां पूर्तये प्रयासः क्रियते।”
मुख्यमन्त्रिणा राज्यस्य परीक्षाकेन्द्राणां स्थितिविषये अपि असन्तोषः व्यक्तीकृतः। सः उक्तवान्, “राज्यस्य परीक्षाकेन्द्राणि अपि दूषितानि जातानि। अस्य कारणात् रेलवेसम्बद्धाः परीक्षाः पश्चिमबङ्गे आयोजिताः न भवन्ति स्म।”
सियालदहस्य जीविकामेलातः मुख्यमन्त्रिणा प्रधानमन्त्री नरेन्द्रमोदिनः पहलायाः अत्यन्तं प्रशंसा कृता। शुभेन्द्वधिकारी उक्तवान्, “प्रधानमन्त्री पारदर्शितया सह मेधावी युवभ्यः रोजगारावकाशान् प्रददाति। माननीयप्रधानमन्त्रिणः उत्तरदायित्वनिर्वाहभावनायाः सर्वत्र प्रशंसा क्रियते।”
एतदतिरिक्तं तेन ओएमआर-भ्रष्टाचारविषये अपि असन्तोषः प्रकटितः। सः उक्तवान्, “ओएमआर-सहितं कार्बनप्रतिलिपेः समर्पणं दुष्टा परम्परा अस्ति। प्रत्येकस्मै परीक्षार्थिने ओएमआर-पत्रिकायाः कार्बनप्रतिलिपिः प्रदेया। वयं इच्छामः यत् मौखिकाङ्कानां महत्त्वं किञ्चित् न्यूनीक्रियेत तथा च राज्ये पूर्णपारदर्शितया नियुक्तयः भवन्तु।”
अस्मिन् समये मुख्यमन्त्रिणा सह केन्द्रीमन्त्री सुकान्तमजूमदारः अपि उपस्थितः आसीत्।
Hindusthan Samachar / Dheeraj Maithani