Enter your Email Address to subscribe to our newsletters

जबलपुरनगरम्, २३ मे-मास: (हि.स.)। केंद्रीय-सामाजिक-न्याय-एवं-अधिकारिता-मन्त्री डॉ.वीरेन्द्रकुमारः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदी-नेतृत्वे देशः विकसित-भारतस्य दिशि द्रुतगत्या अग्रे प्रगच्छति, तथा च यूनां आत्मनिर्भरता-प्राप्तये रोजगारस्य नूतनाः अवसराः सृज्यन्ते।
केंद्रीय-मन्त्री डॉ.कुमारः शनिवासरे मध्यप्रदेशस्य जबलपुर-नगरस्य मदन-महल-स्थिते कमेटी-हॉल-इत्यत्र आयोजिते १९तम-रोजगार-मेल-समारोहं मुख्यातिथिरूपेण सम्बोधयन् एतत् उक्तवान्। सः अवदत् यत् अद्यावधि देशव्यापिनः रोजगार-मेलापकानां माध्यमेन ११.३९ लक्षाधिकेभ्यः युवभ्यः नियुक्ति-पत्राणि प्रदत्तानि सन्ति। अद्य ४७ स्थानेषु आयोजितेषु रोजगार-मेलापकेषु ५१ सहस्राधिकेभ्यः युवकेभ्यः विभिन्न-विभागेषु नियुक्ति-पत्राणि वितरितानि, जबलपुरे च २०१ युवानां नियुक्ति-पत्र-वितरणं कृतम्।
डॉ.कुमारः यून: प्रति आह्वानं कृतवान् यत् ते केवलं सेवाप्राप्तौ न सीमिताः भवन्तु, अपि तु राष्ट्र-निर्माणे सहभागिनः भूत्वा आत्मनिर्भर-भारत-निर्माणे योगदानं ददतु। सः अवदत् यत् डिजिटल-इण्डिया, मेक-इण्डिया, कौशल-विकासः तथा स्टार्टअप-इण्डिया इत्यादयः योजनाः यूनां कृते नूतनाः सम्भावनाः प्रदत्तवन्तः।
सः केन्द्र-सर्वकारस्य विगत-१२-वर्षीय-उपलब्धीनां उल्लेखं कृत्वा अवदत् यत् २०१४ तः २०२६ पर्यन्तं भारतः आधारभूत-संरचना, शिक्षा, स्वास्थ्य, परिवहन, प्रौद्योगिकी तथा उद्यमिता-क्षेत्रेषु ऐतिहासिकां प्रगतिं प्राप्तवान्। सः अवदत् यत् २०१४ पूर्वं देशे केवलं ७४ विमानपत्तनानि आसन्, किन्तु मार्च-२०२५ पर्यन्तं तेषां संख्या १६० पर्यन्तं वर्धिता। ‘उड़ान’ योजनायाः अन्तर्गतं ६२५ नवीन-वायुमार्गाः प्रारब्धाः, येन दूरवर्ती-प्रदेशानां सम्पर्कता सुदृढा अभवत्।
शिक्षा-चिकित्सा-क्षेत्रयोः विस्तारस्य उल्लेखं कुर्वन् सः अवदत् यत् २०१४ अनन्तरं देशे ७ नवीन-आईआईटी, १६ ट्रिपल-आईटी, ७ आईआईएम, १५ एम्स् तथा ३९० नवीन-विश्वविद्यालयाः स्थापिताः। चिकित्सा-आसनानां संख्या ८० सहस्रात् वर्धित्वा १.७० लक्षाधिकं जाता। सः रेलवे-स्टेशन-आधुनिकीकरणं, राष्ट्रीय-राजमार्ग-निर्माणं तथा स्टार्टअप-इण्डिया-अभियानस्य उपलब्धीनां अपि उल्लेखं कृतवान्।
कार्यक्रमावसरे प्रधानमन्त्री नरेन्द्र-मोदी-इत्यस्य वर्चुअल-संबोधनं उपस्थितैः श्रुतम्। तदनन्तरं मन्त्री डॉ.वीरेन्द्रकुमारः सर्किट-हाउसतः मदन-महल-उत्सव-कम्युनिटी-हॉल यावत् ई-त्रिचक्रिकया आगतः।
कार्यक्रमे राज्यसभा-सांसदः सुमित्रा-वाल्मिकः, सांसदः आशीष-दुबे, विधायकाः अजय-विश्नोई, अशोक-रोहाणी, डॉ.अभिलाष-पाण्डेयः तथा रेल-व्यवसाय-आदि-विभागीय-अधिकारीणः, बहवः युवानश्च उपस्थिताः आसन्।
/ Divya Ranjan