Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २३ मे-मासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरी अद्य शनिवासरीय-सायंकाले एकस्य विशालस्य मनोरञ्जन-कार्यक्रमस्य साक्षिणी भविष्यति। अत्र गोविन्दपुरास्थिते बीएचईएल-दशहराक्षेत्रे सायं ५ वादनात् आरभ्य चलच्चित्रस्य ‘पेद्दी’ इत्यस्य सङ्गीतकार्यक्रमः “पेद्दी की आवाज” इत्यस्य आयोजनं भविष्यति, यस्मिन् प्रसिद्धसङ्गीतकारस्य ए.आर.रहमान-इत्यस्य सजीवप्रस्तुतिः भविष्यति।
भोपालनगरम् आगतस्य चलच्चित्रस्य निर्माणदलस्य सदस्याः अवदन् यत् कार्यक्रमे सामान्यजनानां कृते निःशुल्कप्रवेशः प्रदास्यते। ‘पेद्दी’ चलच्चित्रे दक्षिणभारतीयचलच्चित्रजगतः महानायकः रामचरणः मुख्यभूमिकायां दृश्यते, तेन सह जाह्नवीकपूरः, डॉ.शिवराजकुमारः, जगपतिः बाबू तथा दिव्येन्दुः अपि महत्त्वपूर्णभूमिकासु दृश्यन्ते।
निर्देशकस्य बुच्चीबाबूसना इत्यस्य बहुप्रतीक्षितस्य पैन-इण्डिया-चलच्चित्रस्य ‘पेद्दी’ इत्यस्य प्रचारार्थं दक्षिणभारतीय-नायक: रामचरणेन सह सम्पूर्णं चलच्चित्रदलम् भोपालम् आगतम् अस्ति। एतत् चलच्चित्रम् अग्रिमे ४ जून-मासे चित्रमन्दिरेषु प्रदर्शितं भविष्यति। तस्मात् पूर्वमेव अस्य चलच्चित्रस्य आकर्षणं युवसु अत्यधिकं वर्तते।
मुम्बईनगरे भव्यस्य ट्रेलर-लोकार्पणस्य अनन्तरम् अद्य सायं ५ वादनात् भोपालस्य बीएचईएल-दशहराक्षेत्रे भव्यः सङ्गीतकार्यक्रमः आयोज्यते। अस्य कार्यक्रमस्य प्रमुखाकर्षणं ऑस्कर-विजेता सङ्गीतकारस्य ए.आर.रहमान-इत्यस्य सजीवप्रस्तुतिः भविष्यति। जनसम्पर्क-दलस्य सदस्यैः उक्तं यत् अस्य ऐतिहासिकसङ्गीतसमारोहस्य कृते मुम्बईनगरात् विशेषरूपेण १५० कोटिरूप्यकमूल्यानि अत्याधुनिक-सङ्गीतोपकरणानि भोपालम् आनयितानि।
जनसम्पर्कदलस्य सदस्याः अवदन् यत् अस्मिन् भव्यकार्यक्रमे चलच्चित्रस्य बहुप्रतीक्षितं विशेषगीतं सम्पूर्ण-कलाकारदलस्य उपस्थितौ लोकार्पितं भविष्यति। अस्मिन् गीते रामचरणेन सह श्रुतिहासनः तथा जाह्नवीकपूरः इत्येतयोः उत्कृष्टः अभिनयः दृश्यते।
Hindusthan Samachar / Divya Ranjan