Enter your Email Address to subscribe to our newsletters


शिवपुरी-नगरम्, २३ मे-मासः (हि.स.)। केन्द्रीय-सञ्चार-पूर्वोत्तर-विकास-मन्त्री ज्योतिरादित्य-सिन्धिया “कॉकरोच-जनता-पार्टी” इत्यस्य विषये कटाक्षं कृतवान्। तेन उक्तं यत् राजनीति: प्रचलित-प्रवृत्त्या न, अपितु जनानां मध्ये कार्यं कृत्वा एव सञ्चलति।
केन्द्रीय-मन्त्री सिन्धिया शनिवासरे मध्यप्रदेशस्य शिवपुरी-नगरे आयोजिते भाजपाया: “पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षणभियान” कार्यक्रमे सहभागित्वाय आगतः आसीत्। तत्र तेन सामाजिक-माध्यमेषु चर्चितां “कॉकरोच-जनता-पार्टी” विषये पृष्टेषु प्रश्नेषु स्वप्रतिक्रिया प्रदत्ता।
तेन माध्यमैः सह संवादे उक्तं यत् देशस्य जनाः पूर्णतया प्रधानमन्त्री नरेन्द्र-मोदिना सह स्थिताः सन्ति तथा “विकसित-भारत-२०४७” इत्यस्य स्वप्नस्य साकारीकरणाय प्रयत्नशीलाः सन्ति। तेन स्वीकृतं यत् एकस्य टिप्पण्याः अनन्तरं “कॉकरोच-जनता-पार्टी” इत्यस्य विषयः सामाजिक-माध्यमेषु चर्चायाम् आगतः, किन्तु भाजपाया: मुख्य-केन्द्रणं केवलं राष्ट्र-विकासे जन-सेवायां च अस्ति।
तेन स्पष्टतया उक्तं यत् सामाजिक-माध्यमेषु प्रतिदिनं नूतन-विषयाः समक्षम् आगच्छन्ति, किन्तु वास्तविक-राजनीतिः जनानां मध्ये स्थित्वा कार्यकरणेन एव भवति तथा भाजपाया: राष्ट्रस्य उन्नयनाय निरन्तरं कार्यं प्रवर्तते।
भाजपादलस्य प्रत्येकं योद्धा राष्ट्र-प्रगतेः संकल्पाय न स्थास्यति, न नंस्यति – सिन्धिया
केन्द्रीय-मन्त्री सिन्धिया शनिवासरे शिवपुरी-नगरे “पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाअभियान” कार्यक्रमे कार्यकर्तृभिः सह संवादं कुर्वन् “विकसित-भारत-२०४७” इत्यस्य संकल्पस्य, अन्त्योदय-भावनायाः, संघटनस्य वैचारिक-शक्तेः च विषये विस्तरेण चर्चां कृतवान्। तेन उक्तं यत् भाजपाया: प्रत्येकः योद्धा राष्ट्र-प्रगतेः संकल्पाय न स्थास्यति, न नमिष्यति। तेन सर्वेभ्यः कार्यकर्तृभ्यः आह्वानं कृतं यत् प्रधानमन्त्री नरेन्द्र-मोदिनः नेतृत्वे ते भाजपाया: जनकल्याणकारी-योजनाः अन्तिम-पङ्क्तौ स्थितं प्रत्येकं पात्रं जनं प्रति प्रापयितुं संकल्पपूर्वकं कार्यं कुर्वन्तु।
सिन्धिया उक्तवान् यत् शिक्षणस्य प्रक्रिया कदापि स्थगिता न भवेत्, यतः निरन्तरं शिक्षमाणः कार्यकर्ता एव जन-सेवायै नूतनां दिशं ददाति। एतदेव सन्देशं प्रददन् अद्य गुना-नगरे जनपद-स्तरीय-कार्यकर्ता-प्रशिक्षण-कार्यक्रमे “पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाभियानम्” इत्यत्र देवतुल्यैः कार्यकर्तृभिः सह आत्मीय-संवादं कृतवान्। मातृभारत्याः सेवा, अन्तिम-पङ्क्तौ स्थितस्य व्यक्तेः कल्याणम्, “विकसित-भारत-२०४७” इत्यस्य संकल्पस्य साकारीकरणं च प्रति भाजपाया: प्रत्येकं कार्यकर्ता स्वस्य तपस्या-समर्पण-कर्मनिष्ठाभिः अमूल्यं योगदानं ददाति। तेन उक्तं यत् एतेषु समर्पितेषु कर्मयोगिषु स्वस्य गौरव-बुद्धिः अस्ति।
प्रचलित-प्रवृत्त्या अथवा अनुयायिनां सङ्ख्यया राजनीति: न सञ्चलति – खण्डेलवाल:
तत्रैव सिन्धिया सह शिवपुरीम् आगतः भाजपाया: प्रदेशाध्यक्षः हेमन्त-खण्डेलवाल: “कॉकरोच-जनता-पार्टी” इत्यस्य वर्धमान-अनुयायि-सङ्ख्यां विषये उक्तवान् यत् सामाजिक-माध्यमेषु भूमिस्थ-राजनीत्यां च महदन्तरं वर्तते। तेन उक्तं यत् कदाचित् कश्चन विषयः शीघ्रतया चर्चितः भवति तथा कतिपयानि दिवसानि चर्चायां तिष्ठति, किन्तु तस्य प्रभावः दीर्घकालपर्यन्तं न तिष्ठति। तेन बलपूर्वकम् उक्तं यत् राजनीति: केवलं अन्तर्जाल-प्रवृत्त्या अथवा अनुयायिनां सङ्ख्यया न सञ्चलति।
खण्डेलवाल: उक्तवान् यत् भाजपा, काँग्रेस: अथवा अन्यः कश्चन पक्ष: स्वस्य विचारधारया संगठन-शक्त्या च बहुवर्षेभ्यः जनानां मध्ये सक्रियरूपेण कार्यं कुर्वन्ति। केवलं सा एव पार्टी अथवा विचारधारा दीर्घकालपर्यन्तं स्थातुं शक्नोति, या जनानां मध्ये स्थित्वा कार्यं करोति। अतः “कॉकरोच-जनता-पार्टी” इत्यस्य स्थापित-राजनीतिक-दलैः सह तुलनां कर्तुं सर्वथा अनुचितम्। तथापि, यदा तस्मात् “कॉकरोच-जनता-पार्टी” इत्यस्य “एक्स्” (पूर्वं ट्विटर) इति माध्यमस्य प्रतिबन्ध-विषये प्रश्नः पृष्टः, तदा तेन अस्मिन् विषये किमपि वक्तुं परिहारः कृतः।
/ अंशु गुप्ता