मध्यप्रदेशः गोधूम-उपार्जने देशे द्वितीय-स्थाने स्थितः, अद्यावधि शत-लक्ष-मीट्रिक-टनात् अधिका क्रयण-प्रक्रिया सम्पन्ना
भोपालनगरम्, २३ मे-मास: (हि.स.)। मध्यप्रदेश-राज्यं न्यूनतम-समर्थन-मूल्ये गोधूम-उपार्जने अद्यावधि त्रयोदश-लक्षाधिकैः कृषकैः सह क्रयणं कृत्वा देशे प्रथम-स्थानं प्राप्तम् अस्ति। एवं प्रकारेण मध्यप्रदेशः समर्थन-मूल्ये गोधूम-उपार्जन-विषये सर्वाधिक-कृषकान
प्रतीकात्मक फोटो


भोपालनगरम्, २३ मे-मास: (हि.स.)। मध्यप्रदेश-राज्यं न्यूनतम-समर्थन-मूल्ये गोधूम-उपार्जने अद्यावधि त्रयोदश-लक्षाधिकैः कृषकैः सह क्रयणं कृत्वा देशे प्रथम-स्थानं प्राप्तम् अस्ति। एवं प्रकारेण मध्यप्रदेशः समर्थन-मूल्ये गोधूम-उपार्जन-विषये सर्वाधिक-कृषकान् लाभान्वितं कुर्वन् राज्यं जातम्। तस्मात् अपि अद्यावधि प्रायः शत-लक्ष-मीट्रिक-टन-परिमितं गोधूमं उपार्जितम् अस्ति, येन मध्यप्रदेशः पञ्जाब-राज्यस्य पश्चात् द्वितीय-स्थाने स्थितः अस्ति। गोधूम-उपार्जन-प्रक्रिया अद्यापि प्रचलति।

प्रदेशस्य खाद्य-नागरिक-आपूर्ति-उपभोक्ता-संरक्षण-मन्त्री गोविन्द-सिंह-राजपूतः शनिवासरे इदम् अवदत्। सः उक्तवान् यत् राज्य-सर्वकारः कृषक-हिते सततं कार्यं करोति। तेनोक्तं यत् कोविड-१९-कालं वर्जयित्वा विगत-दश-वर्षेषु अस्मिन् वर्षे समर्थन-मूल्ये गोधूमस्य सर्वाधिकं उपार्जनं सम्पन्नम् अस्ति। मुख्यमन्त्रिणा डॉ.मोहन-यादवेन प्रयासैः ७८ लक्ष-मीट्रिक-टन-गोधूम-लक्ष्यं केन्द्र-सर्वकारेण १०० लक्ष-मीट्रिक-टन-पर्यन्तं वर्धितम्। मुख्यमन्त्री स्वयं उपार्जन-केन्द्राणां आकस्मिक-निरीक्षणं कृत्वा तौल-व्यवस्था, बारदाना-उपलब्धता तथा कृषक-सुविधाः अपि परिशीलितवान्।

सः कृषकैः सह संवादं कृत्वा उपार्जित-गोधूमस्य भुगतान-विषये अपि सूचनां प्राप्तवान्। ये कृषकाः स्लॉट-बुकिङ्गं कृतवन्तः, तेषां कृते उपार्जन-अवधिः २३ मेतः वर्धयित्वा २८ मे-मास-पर्यन्तं कृतम्।

मन्त्रिणा इदमपि उक्तं यत् अद्यावधि कृषकाणां कृते उपार्जित-गोधूमस्य २०,६८०.८३ कोटि-रूप्यकाणां प्रदानं कृतम् अस्ति। प्रत्येकम् उपार्जन-केन्द्रे तौल-कर्तनानां संख्या ४ तः ६ पर्यन्तं वर्धिता, तथा च तौल-कट-सम्बन्धी अधिकारः जनपदेभ्यः दत्तः। कृषक-सुविधार्थं तौल-पर्ची-निर्माण-समयः सायं ६ वादनात् रात्रौ १० वादनं यावत् वर्धितः, देयक-निर्गमन-समयः अपि रात्रौ १२ वादनं यावत् कृतः। सप्ताहे षड्-दिनानि यावत् उपार्जनं क्रियते।

समर्थन-मूल्यं २५८५ रूप्यकं प्रति-कुंतलम् तथा राज्य-सर्वकारेण ४० रूप्यक-प्रति-कुंतलम् बोनसः प्रदत्तः, एवं आहत्य २६२५ रूप्यक-प्रति-कुंतल-भावेन उपार्जनं क्रियते। भण्डारण-व्यवस्था अपि सम्यक् रूपेण कृता अस्ति।

खाद्य-मन्त्री राजपूतः उक्तवान् यत् कृषकाणां उपज-तोलनं समये भवेत् इति हेतोः बारदाना, तौल-कटाः, हम्माल-तुलावटी, सिवन-यन्त्रं, संगणकम्, गुणवत्ता-परीक्षण-यन्त्राणि, पंखाः तथा छन्नक-यन्त्राणि इत्यादीनां समुचित-व्यवस्था कृता अस्ति।

Hindusthan Samachar / अंशु गुप्ता