Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 23 मईमासः (हि.स.)।
मध्यप्रदेशस्य उज्जयिन्यां स्थिते श्रीमहाकालेश्वरमन्दिरे शुक्रवासरस्य रात्रौ चलचित्रजगतः प्रसिद्धव्यक्तयः रेमो डिसूजा, अभिनेत्री अंकिता लोखण्डे तथा तस्याः पतिः विक्की जैन च भगवान् श्रीमहाकालेश्वरस्य दर्शनार्थम् आगतवन्तः। ते सर्वे भगवानः श्रीमहाकालेश्वरस्य शयनआरत्यां सहभागित्वा विधिपूर्वकं पूजनम् अर्चनां च कृत्वा आशीर्वादं प्राप्तवन्तः।
प्रसिद्धः नृत्यनिर्देशकः चलचित्रनिर्माता च रेमो डिसूजा स्वपत्न्या सह रात्रौ प्रायः दशवादने मन्दिरम् आगतवान्। तेन सह अभिनेत्री अंकिता लोखण्डे अभिनेता विक्की जैन च अपि उपस्थितौ आस्ताम्। सर्वे नन्दीमण्डपे उपविश्य बाबा महाकालस्य दिव्यां शयनआरतिं दृष्टवन्तः। आरत्याः समये ते त्रयः अपि श्रद्धाभक्तिभावेन निमग्नाः दृश्यन्ते स्म।
आरतेः अनन्तरं रेमो डिसूजा, अंकिता लोखण्डे तथा विक्की जैन इत्येते नन्दीमहाराजस्य पूजनाभिषेकं कृत्वा नन्देः कर्णे स्वमनोकामनां कथितवन्तः। ततः पश्चात् ते रजतद्वारेण भगवानः महाकालस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तः।
श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्याः पक्षतः सर्वेषां कलाकाराणां स्वागतं सम्मानं च कृतम्। मन्दिरपरिसरे उपस्थिताः श्रद्धालवः अपि स्वप्रियकलाकाराणां दर्शनार्थं महत् उत्साहं प्रदर्शितवन्तः।
उल्लेखनीयम् अस्ति यत् एषः प्रथमः अवसरः नास्ति यदा रेमो डिसूजा तथा अंकिता लोखण्डे बाबा महाकालस्य दर्शनार्थम् आगतवन्तौ। अंकिता लोखण्डे किञ्चिद्दिनपूर्वम् अपि स्वपतिना विक्की जैनेन सह महाकालमन्दिरम् आगता आसीत्, यदा रेमो डिसूजा अपि अनेकवारं बाबा महाकालस्य चरणयोः उपस्थितिं कृतवान् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani