Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 मईमासः (हि.स.)।अमेरिकादेशस्य विदेशमन्त्री मार्को रुबियो शनिवासरे प्रातःकाले स्वपत्नीसमेतः कोलकातानगरम् आगतः। नेताजी सुभाषचन्द्रबोस-अन्ताराष्ट्रियविमानपत्तने आगमनानन्तरं सः प्रत्यक्षतया तालतलास्थितं मदर टेरेसा हाउस इति स्थानं गतः। अपराह्णकाले तस्य दिल्लीगमनस्य कार्यक्रमः निर्धारितः अस्ति, यत्र सः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह भेंटं करिष्यति।
भारते अमेरिकादेशस्य राजदूतः सर्जियो गोर ‘एक्स’ इति सामाजिकमाध्यमे रुबियो-महोदयस्य कोलकाताप्राप्तेः सूचना प्रदत्तवान्। तेन उक्तं यत् दिल्ल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनस्य अतिरिक्तं व्यापारः, प्रौद्योगिकी, रक्षा, क्वाड इत्यादिविषयेषु बहवः चर्चाचक्राः भविष्यन्ति।
पश्चिम-एशियाक्षेत्रे वर्तमानस्य तनावस्य तथा अमेरिका-ईरानयोः संघर्षस्य मध्ये एषा यात्रा अत्यन्तं महत्त्वपूर्णा मन्यते। भारतदेशः निरन्तरं संवादमाध्यमेन क्षेत्रे शान्तिस्थापनस्य समर्थनं कुर्वन् अस्ति। सहैव नवीदिल्ली-प्रशासनं हॉर्मुज-जलडमरूमध्ये मालवाहकयानानां निर्बाधगमनागमनस्य आवश्यकतायामपि बलं दत्तवती।
कोलकातानगरगमनात् पूर्वं मार्को रुबियो उक्तवान् यत् भारतदेशः अमेरिकादेशस्य “अत्यन्तं निकटमित्रम्” अस्ति तथा च सः भारतीयमन्त्रिभिः क्वाडदेशानां प्रतिनिधिभिश्च सह उपवेशनं प्रति उत्साहितः अस्ति।
रुबियो स्वस्य भारतभ्रमणस्य अन्तिमदिने २६ मई दिनाङ्के आयोज्यमानायां क्वाडबैठकायामपि सहभागं करिष्यति। अस्यां गोष्ठ्यां भारतस्य विदेशमन्त्री एस जयशंकर, ऑस्ट्रेलियादेशस्य विदेशमन्त्री पेनी वोंग तथा जापानदेशस्य विदेशमन्त्री मोटेगी तोशिमित्सुः अपि उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Dheeraj Maithani