Enter your Email Address to subscribe to our newsletters

बाक्सा (असमः), 23 मईमासः (हि.स.)।
असमप्रदेशस्य बाक्साजनपदे स्थितस्य माधोपुरजामामस्जिदक्षेत्रस्य अन्तर्गतं निवसन्तः शताधिकाः मुस्लिमपरिवाराः अस्मिन् बकरीद्पर्वणि गोधनस्य कुर्बानीं न दातुम् निर्णयं कृतवन्तः।
स्थानीयजनानां अनुसारेण सनातनधर्मावलम्बिनां धार्मिकभावनानां सम्मानं कृत्वा एषः निर्णयः स्वीकृतः। मुस्लिमसमुदायस्य जनाः उक्तवन्तः यत् ते केनापि प्रकारेण हिन्दूसमाजस्य भावनाः आहतुं न इच्छन्ति, यतः गौः सनातनधर्मे पूजनीया मन्यते।
क्षेत्रस्य जनैः एष प्रयत्नः परस्परभ्रातृत्वस्य सामाजिकसौहार्दस्य च प्रतीकरूपेण वर्णिता। उभयसमुदायस्य जनाः अस्य निर्णयस्य स्वागतं कृत्वा एतत् साम्प्रदायिकसद्भावस्य सकारात्मकम् उदाहरणम् इति निरूपितवन्तः।
------------
Hindusthan Samachar / Dheeraj Maithani