राष्ट्रियं कीर्तिमानं निर्माय राष्ट्रमंडलक्रीडाम् उत्तीणां कर्तुम् अनीमेष कुजूराय नवीन पटनायकः अददाच्छुभकामनाः
भुवनेश्वरम्, 23 मईमासः (हि.स.)। ओडिशाविधानसभायां प्रतिपक्षनेता नवीनपटनायकः ओडिशायाः उदितधावकाय अनीमेषकुजूराय १०० मीटर-धावनस्पर्धायां नवीनराष्ट्रियम्अभिलेखस्थापनार्थं शुभकामनाः अभिनन्दनं च प्रदत्तवान्। सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे नवीनपटना
नवीन पटनायक


भुवनेश्वरम्, 23 मईमासः (हि.स.)।

ओडिशाविधानसभायां प्रतिपक्षनेता नवीनपटनायकः ओडिशायाः उदितधावकाय अनीमेषकुजूराय १०० मीटर-धावनस्पर्धायां नवीनराष्ट्रियम्अभिलेखस्थापनार्थं शुभकामनाः अभिनन्दनं च प्रदत्तवान्।

सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे नवीनपटनायकः उक्तवान् यत् अनीमेषकुजूरेण २९तमायां वरिष्ठएथलेटिक्सफेडरेशनस्पर्धा-२०२६ मध्ये १०.१५ सेकण्डकालं निर्दिश्य १०० मीटर-धावनस्पर्धायां नवीनः राष्ट्रीयअभिलेखः स्थापितः। अनेन उत्कृष्टप्रदर्शनेन सः वर्ष २०२६ राष्ट्रमण्डलक्रीडासु (कॉमनवेल्थगेम्स्) सहभागितायै अपि अर्हतां प्राप्तवान्।

नवीनपटनायकः अनीमेषस्य एतां उपलब्धिं भारतीयएथलेटिक्सक्षेत्रस्य कृते गौरवपूर्णां कथयन् उक्तवान् यत् तस्य प्रतिभा कठिनपरिश्रमः समर्पणं च देशस्य युवा-क्रीडकानां कृते प्रेरणास्रोतः अस्ति।

तेन आशा व्यक्तीकृता यत् अनीमेषकुजूरः भविष्येऽपि स्वीयेन उत्कृष्टप्रदर्शनेन क्रीडाजगति नवीनाः उन्नतयः स्प्रक्ष्यति तथा भारतस्य नाम अन्तरराष्ट्रीयमञ्चे गौरवान्वितं करिष्यति।

प्रतिपक्षनेता युव-धावकस्य उज्ज्वलभविष्यस्य कामनां कृत्वा तस्य आगामिक्रीडाभियानानां कृते शुभकामनाः प्रदत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani