Enter your Email Address to subscribe to our newsletters

नव-दिल्ली, २३ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे प्रातः एकादशवादने (११ वादने) दृश्य-सम्पर्क-माध्यमेन (वीडियो कॉन्फ्रेंसिंग) माध्यमेन एकोनविंशतितमे (१९मे) रोजगार-मेलापके विविधेषु राजकीय-विभागेषु सङ्घटनेषु च ५१ सहस्राधिकेभ्यः नवनियुक्तेभ्यः युवभ्यः नियुक्ति-पत्राणि वितरिष्यति। सः आयोजनम् अपि सम्बोधयिष्यति।
प्रधानमन्त्री अद्य रोजगार-मेलापके ५१ सहस्राधिकेभ्यः नवनियुक्तेभ्यः युवभ्यः दृश्य-सम्पर्क-माध्यमेन विविधेषु राजकीय-विभागेषु सङ्घटनेषु च नियुक्ति-पत्राणि वितरिष्यति। प्रधानमन्त्री स्वकीय-सामाजिक-माध्यमे उक्तवान् यत् देशव्यापिनां युवानां उज्ज्वल-भविष्याय सशक्तीकरणाय च सर्वकारस्य प्रतिबद्धता निरन्तरं प्रवर्तते।
एषः रोजगार-मेलापक: देशस्य ४७ स्थानेषु आयोज्यते। चयनिताः अभ्यर्थिनः रेल-मन्त्रालये, गृह-मन्त्रालये, स्वास्थ्य-परिवार-कल्याण-विभागे, वित्तीय-सेवासु तथा उच्च-शिक्षायां च विविधेषु मन्त्रालयेषु विभागेषु च स्वसेवां प्रदास्यन्ति।
Hindusthan Samachar / Divya Ranjan