Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे वीडियो-कॉन्फ्रेन्सिंग-माध्यमेन आयोजिते १९तमे रोजगार-मेलापके ५१ सहस्राधिकेभ्यः युवभ्यः केन्द्र-सर्वकारस्य सेवासु नियुक्त्यर्थं नियुक्ति-पत्राणि प्रदत्तवान्। तेन उक्तं यत् देशस्य युवा विकसित-भारत-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति तथा अग्रिम-वर्षेषु नूतन-अर्थव्यवस्थायां प्रौद्योगिकी-आधारित-क्षेत्रेषु च रोजगारस्य विशालाः अवसराः उत्पत्स्यन्ते।
प्रधानमन्त्रिणा उक्तं यत् अद्यतनः दिवसः देशव्यापिनां सहस्रशः यूनां तेषां परिवाराणां च कृते अतीव महत्त्वपूर्णः अस्ति। नियुक्तिं प्राप्तवन्तः युवानः रेल-सेवा, बैंकिंग-क्षेत्रे, रक्षा-क्षेत्रे, स्वास्थ्य-क्षेत्रे, शिक्षा-क्षेत्रे तथा अन्येषु क्षेत्रेषु नूतन-उत्तरदायित्वानि स्वीकर्तुं गच्छन्ति तथा ते देशस्य विकास-यात्रायाः उत्तरदायी-भागिनः भविष्यन्ति।
मोदी उक्तवान् यत् अद्यतनकाले तस्य पञ्च-देशीय-विदेश-यात्रायाः समये विश्वस्य प्रमुख-निर्माणिनां प्रमुखैः सह विस्तृता चर्चा अभवत् तथा सर्वत्र भारतस्य यूनां देशस्य प्रौद्योगिकी-प्रगतिं प्रति च उत्साहः दृष्टः। तेन उक्तं यत् विश्वं भारतस्य विकास-यात्रायाः भागं भवितुम् इच्छति तथा भारतं विभिन्न-देशैः सह सहभागितां वर्धयित्वा यूनां कृते नूतन-अवसरान् निर्माति।
प्रधानमन्त्रिणा उक्तं यत् स्वच्छ-ऊर्जा, क्रिटिकल्-मिनरल्स्, हरित-हाइड्रोजन तथा सतत-विनिर्माणम् इत्यादीनि क्षेत्राणि तीव्रतया प्रगच्छन्ति। स्वीडन्, नार्वे, इटली इत्यादिभिः देशैः सह हरित-परिवर्तनस्य सतत-प्रौद्योगिक्याश्च क्षेत्रे सहयोगस्य वर्धनेन भारतं भविष्यस्य स्वच्छ-विनिर्माण-उद्योगे सुदृढं भविष्यति। यूएई तथा नार्वे इत्याभ्यां सह सहभागितया भारतस्य नौका-निर्माण-परितन्त्रं सुदृढं भविष्यति, येन अभियन्तॄणां, प्राविधिकानां कौशल-युक्त-कार्यकर्तॄणां च आवश्यकता वर्धिष्यते।
तेन उक्तं यत् देशः २०४७तम-वर्षपर्यन्तं विकसित-भारतस्य लक्ष्यं प्रति अग्रे गच्छति। अस्य कृते विभिन्न-क्षेत्रेषु विशाल-स्तरे निवेशः क्रियते। अनेन यूनां कृते रोजगारस्य लक्षशः नूतन-अवसराः निर्मीयन्ते। प्रधानमन्त्री उक्तवान् यत् भारतं शीघ्रतया इलेक्ट्रॉनिक्-विनिर्माण-केन्द्रं भवति तथा देशे सेमीकण्डक्टर-विनिर्माण-आपूर्ति-शृङ्खला विकसिता क्रियते। अग्रिम-वर्षेषु भारतस्य दश प्रमुखाः सेमीकण्डक्टर-एककाः वैश्विक-स्तरे स्वपरिचयं स्थापयिष्यन्ति तथा तेषु यूनां महती भूमिका भविष्यति।
मोदी उक्तवान् यत् ग्रामेषु वर्धमानया संयोजकता कृषकाणां, लघु-व्यापारिणां विद्यार्थिनां च कृते नूतन-अवसराः उद्घाटिताः। तेन नारी-शक्तेः वर्धमान-सहभागितायाः उल्लेखं कृत्वा उक्तं यत् अद्य बहुसंख्यकाः महिला-नेतृत्वयुक्ताः स्टार्टअप्-उद्यमाः समक्षम् आगच्छन्ति तथा मुद्रा-योजनायाः अन्तर्गतं कोटिशः महिलाभ्यः आर्थिक-साहाय्यं प्राप्तम्। प्रधानमन्त्री यूनः प्रति सार्वजनिक-सेवां राष्ट्र-सेवायाः जन-सेवायाश्च माध्यमत्वेन स्वीकृत्य कार्यं कर्तुम् आह्वानं कृतवान्।
उल्लेखनीयम् अस्ति यत् देशव्यापिनः आयोजितेषु अष्टादश-रोजगार-मेलापकेषु अधुना यावत् प्रायः १२ लक्ष-नियुक्ति-पत्राणि वितरितानि सन्ति। १९तमः रोजगार-मेलापक: देशस्य ४७ स्थानेषु आयोजितः। अस्मिन् अवसरे चयनितेभ्यः अभ्यर्थिभ्यः रेल-मन्त्रालये, गृह-मन्त्रालये, स्वास्थ्य-परिवार-कल्याण-मन्त्रालये, वित्तीय-सेवा-विभागे तथा उच्च-शिक्षा-विभागे इत्यादिषु विभिन्न-मन्त्रालयेषु विभागेषु च नियुक्तिः प्रदत्ता।
Hindusthan Samachar / Divya Ranjan