Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २३ मे-मासः (हि.स.)। केन्द्रीय-रेलमन्त्री अश्विनी-वैष्णवः शनिवासरे जयपुर-प्रवासे आसीत्। तेन जयपुर-स्थिते ‘कॉन्स्टिट्यूशन-क्लब्-ऑफ्-राजस्थान’ इति स्थले आयोजिते रोजगार-मेलापके सहभागिता कृता तथा विभिन्न-केन्द्रीय-विभागेषु चयनितेभ्यः ४२० युवभ्यः नियुक्ति-पत्राणि वितरितानि। अस्मिन् अवसरे रेलमन्त्रिणा उक्तं यत् रेलविभागे शीघ्रमेव १ लक्ष ७८ सहस्र-पदेषु नियुक्तयः प्रकाशिताः भविष्यन्ति।
रोजगार-मेलापकस्य अवसरे रेलमन्त्री अश्विनी-वैष्णवः यूनः सम्बोधयन् उक्तवान् यत् रेलविभागस्य नियुक्ति-प्रक्रिया अधुना अधिक-पारदर्शिनी समयबद्धा च कृता अस्ति। पूर्वं नियुक्ति-प्रक्रियाः बहुवर्षपर्यन्तं प्रचलन्ति स्म, किन्तु अधुना वार्षिक-नियुक्ति-पञ्चाङ्गस्य प्रवर्तनात् युवभ्यः पूर्वमेव ज्ञायते यत् कस्मिन् समये का नियुक्तिः भविष्यति। तेन उक्तं यत् रेल-नियुक्ति-प्रक्रिया चतुर्षु चरणेषु विभक्ता अस्ति। प्रथम-चरणे लोको-पायलट्-पदानां, द्वितीय-चरणे टेक्निशियन-तथा अन्य-प्राविधिक-पदानां, तृतीय-चरणे नॉन-टेक्निकल-पॉपुलर-कैटेगरी इत्यस्य अन्तर्गत-स्थानक-प्रबन्धक-जूनियर-अभियन्तृ-पदानां तथा चतुर्थ-चरणे लेवल्-१ पदानां विज्ञापनानि प्रकाशितानि भवन्ति। अनेन युवभ्यः उत्तम-प्रस्तुतिः नियमित-अवसराश्च प्राप्यन्ते।
केन्द्रीय-रेलमन्त्रिणा अस्मिन् अवसरे राजस्थान-राज्ये रेल-विस्तार-परियोजनानां विषये अपि सूचना प्रदत्ता। तेन उक्तं यत् भारतीय-रेलविभागः देशव्यापिनः ३६ सहस्र-किलोमीटर-परिमितान् नूतन-रेलमार्गान् निर्मातुं कार्यं करोति। राजस्थाने प्रचल्यमानाः रेल-परियोजनाः पूर्णतां प्राप्त्वा राज्ये प्रायः २०० नूतन-रेलयानानां सञ्चालनस्य योजना अस्ति। कोविड्-महामारी-अनन्तरं राजस्थान-राज्याय ५० अधिकाः नूतन-रेलयानाः प्रदत्ताः, येन यात्रिकेभ्यः उत्तमा संयोजकता प्राप्ता।
रोजगार-मेलापके बहुसंख्यया युवानः तेषां परिवार-जनाश्च उपस्थिताः आसन्। कार्यक्रमस्य अन्ते रेलमन्त्री युवभिः सह संवादं कृत्वा तान् राष्ट्र-निर्माणे सक्रिय-भूमिकां निर्वोढुं स्व-कार्य-क्षेत्रे उत्कृष्ट-प्रदर्शनं कर्तुं च प्रेरितवान्।
अस्मिन् कार्यक्रमे केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्री भूपेन्द्र-यादवः, लोकसभा-सांसदा मञ्जू-शर्मा तथा विधायकः गोपाल-शर्मा अपि उपस्थिताः आसन्।
देशस्य ४७ स्थानेषु आयोजितस्य अस्य रोजगार-मेलापकस्य शुभारम्भः प्रधानमन्त्री नरेन्द्रमोदिना वीडियो-कॉन्फ्रेन्सिंग-माध्यमेन कृतः। प्रधानमन्त्रिणा एकस्मिन् एव समये ५१ सहस्राधिकेभ्यः युवभ्यः नियुक्ति-पत्राणि वितरितानि। रोजगार-मेलापकस्य माध्यमेन रेलविभागे, इसरो-संस्थायाम्, स्वास्थ्य-परिवार-कल्याण-विभागे, शिक्षा-विभागे, डाक-विभागे च सहित विभिन्न-केन्द्रीय-विभागेषु चयनितेभ्यः अभ्यर्थिभ्यः नियुक्तयः प्रदत्ताः।
Hindusthan Samachar / Divya Ranjan