दिल्ली-स्थिते रक्तदुर्गे रविवासरे देशस्य विविध-प्रदेशेभ्यः आगतं जनजातीय-समाजं समागमिष्यति
नवदिल्ली, २३ मे-मासः (हि.स.)। दिल्ली-स्थिते रक्तदुर्गे रविवासरे जनजातीय-समाजस्य विशालः सांस्कृतिक-समागमः आयोज्यते। देशस्य विविध-राज्येभ्यः जनजातीय-समाजस्य प्रतिनिधयः, सामाजिक-सङ्घटनानि पारम्परिक-समूहाश्च बहुसंख्यया अस्मिन् आयोजने सहभागितां कर्तुं आ
जनजातीय समागम का पोस्टर


नवदिल्ली, २३ मे-मासः (हि.स.)। दिल्ली-स्थिते रक्तदुर्गे रविवासरे जनजातीय-समाजस्य विशालः सांस्कृतिक-समागमः आयोज्यते। देशस्य विविध-राज्येभ्यः जनजातीय-समाजस्य प्रतिनिधयः, सामाजिक-सङ्घटनानि पारम्परिक-समूहाश्च बहुसंख्यया अस्मिन् आयोजने सहभागितां कर्तुं आगच्छन्ति। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः अपि रविवासरे सायंकाले अस्मिन् कार्यक्रमे सहभागित्वं करिष्यतीति अपेक्षा वर्तते।

जनजातीय-सांस्कृतिक-समागमस्य आयोजकेन जनजाति-सुरक्षा-मञ्चेन उक्तं यत् एतत् आयोजनं जनजातीय-समाजस्य सांस्कृतिक-परिचयः, एकता, जागरूकता च सम्बद्धेषु महत्त्वपूर्ण-विषयेषु जनानां ध्यानाकर्षणार्थं क्रियते। कार्यक्रमे जनजातीय-विरासतस्य संरक्षणम्, सामाजिक-सहभागिता, वर्तमान-समस्या: इत्यादिषु विषयेषु अपि चर्चा प्रस्ताविता अस्ति।

Hindusthan Samachar / Divya Ranjan