Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 23 मईमासः (हि.स.)।
अखिलभारतीयकाङ्ग्रेससमितेः (एआईसीसी) महासचिवः तथा राज्यसभासांसदः रणदीपसिंहसुरजेवाला अद्य असमपुलिसस्य क्राइमब्राञ्चसमक्षं उपस्थितः भविष्यति। काङ्ग्रेसनेता पवनखेड़ा इत्यस्मात् पृच्छापरीक्षणस्य समये तेन सुरजेवालायाः नाम उल्लिखिते सति क्राइमब्राञ्चद्वारा सस्समाहूतः।
सूत्राणां अनुसारं, अन्वेषणसंस्था अस्मिन् प्रकरणे अग्रिमपृच्छापरीक्षणार्थं सुरजेवालात् जानकारीं संग्रहीष्यति। एतत् प्रकरणं मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः पत्नी रिनिकीभुइयांशर्मा इत्यस्याः विषये काङ्ग्रेसनेतृभिः कृताभिः कथितविवादास्पदटिप्पण्याभिः सम्बद्धम् इति कथ्यते।
-----------
Hindusthan Samachar / Dheeraj Maithani