आईपीएल २०२६ - ऑरेंज-कैप-स्पर्धायां क्लासेन तृतीयस्थाने, ईशानकिशन शीर्ष-पञ्चके प्रविष्टः
नवदेहली, २३ मे-मासः (हि.स.)। इण्डियन-प्रीमियर-लीग-स्पर्धा (आईपीएल) २०२६ इत्यस्य स्पर्धा-चरणस्य अन्तिमपर्याये ऑरेंज-कैप तथा पर्पल-कैप स्पर्धा अत्यन्तं रोमाञ्चका अभवत्। शुक्रवासरे सनराइजर्स हैदराबाद तथा रॉयल चैलेंजर्स बेङ्गलुरु इत्येतयोः मध्ये सम्पन्
अभिषेक शर्मा और हेनरिक क्लासेन शॉट खेलते हुए


नवदेहली, २३ मे-मासः (हि.स.)। इण्डियन-प्रीमियर-लीग-स्पर्धा (आईपीएल) २०२६ इत्यस्य स्पर्धा-चरणस्य अन्तिमपर्याये ऑरेंज-कैप तथा पर्पल-कैप स्पर्धा अत्यन्तं रोमाञ्चका अभवत्। शुक्रवासरे सनराइजर्स हैदराबाद तथा रॉयल चैलेंजर्स बेङ्गलुरु इत्येतयोः मध्ये सम्पन्नायाः क्रीडायाः अनन्तरं उभयोः सूच्योः अनेकानि महत्त्वपूर्णपरिवर्तनानि दृष्टानि।

ऑरेंज-कैप-स्पर्धायां साईसुदर्शनः ६३८ धावनाङ्कैः अद्यापि शीर्षस्थाने वर्तते। तस्य सहक्रीडकः तथा नायकः शुभमनगिलः ६१६ धावनाङ्कैः द्वितीयस्थाने अस्ति।

सनराइजर्स हैदराबाद इत्यस्य विस्फोटक-बल्लेबाजक्रीडकः हेनरिकक्लासेनः आरसीबी-विरुद्धं केवलं २४ कन्दुकैः ५१ धावनाङ्कान् कृत्वा तृतीयस्थानं प्राप्तवान्। क्लासेनस्य अधुना १४ पर्यायेषु ६०६ धावनाङ्काः अभवन्।

राजस्थान रॉयल्स इत्यस्य वैभवसूर्यवंशी ५७९ धावनाङ्कैः चतुर्थस्थाने वर्तते। अपरतः सनराइजर्स हैदराबाद इत्यस्य विकेटरक्षक-बल्लेबाजक्रीडकः ईशानकिशनः आरसीबी-विरुद्धं ४६ कन्दुकैः ७९ धावनाङ्कान् कृत्वा शीर्ष-पञ्चके स्थानं प्राप्तवान्। किशनस्य अधुना ५६९ धावनाङ्काः सन्ति।

पर्पल-कैप् स्पर्धायां रॉयलचैलेंजर्स-बेङ्गलुरु इत्यस्य तीव्रकन्दूकक्षेपकः भुवनेश्वरकुमारः तथा गुजरातटाइटन्स-इत्यस्य कगिसोरबाडा उभावपि २४-२४ विकेट-माध्यमैः संयुक्तरूपेण शीर्षस्थाने स्तः।

तथापि उत्तमतरेण इकॉनमी-दरेण (८.०७) पर्पल-कैप अधुना भुवनेश्वरकुमारस्य समीपे एव अस्ति, यदा कगिसोरबाडायाः इकॉनमी-दरः ९.१८ अस्ति।

चेन्नईसुपरकिंग्स-इत्यस्य युवा तीव्रकन्दूकक्षेपकः अंशुलकंबोजः २१ विकेट-माध्यमैः तृतीयस्थाने वर्तते। गुजरातटाइटन्स-इत्यस्य प्रमुखः स्पिन-कन्दूकक्षेपकः राशिदखानः १९ विकेट-माध्यमेन चतुर्थस्थाने अस्ति।

सनराइजर्स-हैदराबाद-इत्यस्य ईशानमलिंगा आरसीबी-विरुद्धं २ विकेट प्राप्य स्वविकेटसंख्यां १९ पर्यन्तं नीतवान्, किन्तु तस्य ९.२७ इति इकॉनमी-दरस्य कारणात् सः पञ्चमस्थाने वर्तते।

Hindusthan Samachar / Divya Ranjan