मुख्यमन्त्रिणा यादगिरिगुट्टा-देवालये एकोनशत-कोटि-रूप्यक-परियोजनानां शिलान्यासः कृतः
हैदराबादनगरम्, २३ मे-मास: (हि.स.)। तेलङ्गाना-राज्यस्य मुख्यमन्त्री ए.रेवन्त-रेड्डी शनिवासरे यादगिरिगुट्टा-क्षेत्रम् (यदाद्रि-भुवनगिरि-जनपदे) अभ्यगच्छत्। सः तत्र प्रसिद्धे श्रीलक्ष्मीनरसिंह-स्वामि-मन्दिरे दर्शनं कृत्वा पूजनं च अकरोत्, तथा च मन्दिर-व
तेलंगाना के सीएम रेवंत रेड्डी यादगिरी गुट्टा दौरे पर


हैदराबादनगरम्, २३ मे-मास: (हि.स.)। तेलङ्गाना-राज्यस्य मुख्यमन्त्री ए.रेवन्त-रेड्डी शनिवासरे यादगिरिगुट्टा-क्षेत्रम् (यदाद्रि-भुवनगिरि-जनपदे) अभ्यगच्छत्। सः तत्र प्रसिद्धे श्रीलक्ष्मीनरसिंह-स्वामि-मन्दिरे दर्शनं कृत्वा पूजनं च अकरोत्, तथा च मन्दिर-विकाससम्बद्धानां ९९.५५ कोटि-रूप्यक-मूल्यानां विविध-परियोजनानां शिलान्यासं कृतवान्।

मुख्यमन्त्रिणा प्रथमं ४३.८० कोटि-रूप्यक-मूल्येन निर्मीयमाणस्य ‘वेदपाठशाला’ इत्यस्य आधारशिला स्थापिता। ततः पर्वतस्य उपरिभागे ९.८७ कोटि-रूप्यक-व्ययेन निर्मीयमाणस्य भगवतः ‘नित्य-कल्याण-मण्डपम्’ इत्यस्य भूमिपूजनं कृतम्। अपि च वैकुण्ठ-द्वारात् पर्वतोपरि यावत् गन्तुं निर्मीयमाणानां सोपानानां उपरि १.४१ कोटि-रूप्यक-व्ययेन छादन-निर्माणस्य (रूफ-कवरिंग) शुभारम्भः कृतः।

तत्सह रथशालायाः समीपे माडा-वीथीभ्यः गन्तुं सोपान-निर्माणाय १.३५ कोटि-रूप्यक-परियोजनायाः शिलान्यासः अपि कृतः। मुख्यमन्त्रिणा दीक्षा-ग्रहणं कुर्वतां भक्तानां कृते ४३.१२ कोटि-रूप्यक-व्ययेन निर्मीयमाणस्य डॉरमेटरी-भवनस्य तथा आवास-सुविधानां अपि आधारशिला स्थापिता।

तेलङ्गान-राज्यस्य यादगिरिगुट्टा-क्षेत्रम् ऐतिहासिकं स्थलम् अस्ति, यत्र श्रीलक्ष्मीनरसिंह-भगवतः प्रसिद्धं प्राचीनं मन्दिरं स्थितम् अस्ति। अस्य विकासाय योजनाः क्रियन्ते।

Hindusthan Samachar / Divya Ranjan