Enter your Email Address to subscribe to our newsletters

नवदेहली, २३ मे-मासः (हि.स.)। अमेरिकादेशे गुप्तचरसंस्थानां प्रमुखा तुलसीगबार्डः इत्यनया स्वपदात् त्यागपत्रं दत्तम्। राष्ट्रपतिः डोनाल्डट्रम्पः स्वस्य द्वितीयकार्यकाले तुलसीगबार्डः इत्येनां अमेरिकादेशस्य अष्टादशगुप्तचरसंस्थानां निरीक्षणकर्त्र्याः राष्ट्रियगुप्तचरसंस्थायाः निदेशिकापदे नियुक्तवान् आसीत्।
राष्ट्रपतिः ट्रम्पः तुलसीगबार्ड-इत्यस्याः त्यागपत्रं स्वीकृतवान् तथा तस्याः सहायक-उपनिदेशकं आरोनलुकासः इत्येनं कार्यवाहकनिदेशकपदे नियुक्तवान्। तुलसी अग्रिमे ३० जूनमासे पदमुक्ता भविष्यति।
राष्ट्रपतिने ट्रम्पाय प्रेषिते स्वत्यागपत्रे तुलसी इत्यनया स्वपतेः अब्राहमस्य रोगस्य उल्लेखः कृतः। सा अलिखत् यत् “मम पतिः दुर्लभप्रकारस्य अस्थिकर्कटरोगेण पीडितः अस्ति।” सा पत्युः परिचर्यायै समयम् इच्छति।
राष्ट्रपतिः ट्रम्पः सामाजिकमाध्यमे तुलसीगबार्ड-इत्यस्याः कार्यकालस्य प्रशंसां कुर्वन् अवदत् यत् “अस्माभिः तस्याः अभावः अनुभविष्यते।”
तुलसी इत्यनया स्वत्यागपत्रे ईरानयुद्धस्य अथवा अन्यविषयेषु ट्रम्पप्रशासनस्य नीतिषु कस्यापि असहमतेः उल्लेखः न कृतः। तथापि राजनैतिकवृत्तेषु सामान्यतया चर्चा आसीत् यत् तुलसीगबार्डः ईरानस्य परमाणु-कार्यक्रमविषये तस्य विरुद्धं प्रारब्धस्य युद्धस्य विरोधिनी आसीत्। गतेषु कतिपयमासेषु ट्रम्पप्रशासनस्य अनेकमन्त्रिणः अधिकारीणश्च त्यागपत्रं दत्तवन्तः।
Hindusthan Samachar / Divya Ranjan