सिक्खानां पवित्र-तीर्थं हेमकुण्ड-साहिबस्य कपाटाः उद्घाटिताः, प्रथम-दिने षट्सहस्राधिकैः श्रद्धालुभिः दर्शनं कृतम्
चमोली/ज्योतिर्मठ:, २३ मे-मास: (हि.स.)। देश-विदेश-स्थितानां सिक्ख-श्रद्धालूनाम् आस्थायाः प्रमुखकेन्द्रं श्री-हेमकुण्ड-साहिबस्य कपाटाः शनिवासरे विधि-विधानैः धार्मिक-परम्पराभिः च श्रद्धालुभ्यः उद्घाटिताः। कपाट-उद्घाटनानन्तरं समुद्र-तलात् प्रायः पञ्चदश
हेमकुण्ड साहिब यात्रा


चमोली/ज्योतिर्मठ:, २३ मे-मास: (हि.स.)। देश-विदेश-स्थितानां सिक्ख-श्रद्धालूनाम् आस्थायाः प्रमुखकेन्द्रं श्री-हेमकुण्ड-साहिबस्य कपाटाः शनिवासरे विधि-विधानैः धार्मिक-परम्पराभिः च श्रद्धालुभ्यः उद्घाटिताः। कपाट-उद्घाटनानन्तरं समुद्र-तलात् प्रायः पञ्चदश-सहस्र-पाद-उन्नत-स्थले स्थिते अस्मिन् पवित्र-तीर्थे श्रद्धा-भक्ति-उत्साहानां अद्भुतः समन्वयः दृष्टः। यात्रा-प्रथम-दिने षट्सहस्राधिकैः श्रद्धालुभिः पवित्र-सरोवरे स्नानं कृत्वा नमनं कृतवान् तथा गुरु-गृहे प्रार्थना कृता।

शनिवासरे प्रातः पञ्च-प्रिमिणां नेतृत्वे श्री-गुरु-ग्रन्थ-साहिबः सत्खण्डात् दरबार-साहिबं यावत् पारम्परिक-मानसम्मानेन समुपनीतः। सुखमणी-साहिब-पाठस्य तथा शबद-कीर्तनस्य अनन्तरं गुरुद्वारस्य कपाटाः श्रद्धालूनां दर्शनाय उद्घाटिताः। अपराह्णे १२:३० वादने वर्ष-२०२६-प्रथम-अरदास् तथा हुक्मनाम्ना सह श्री-हेमकुण्ड-साहिब-यात्रायाः औपचारिकः आरम्भः कृतः।

श्री-हेमकुण्ड-साहिब-प्रबन्धन-न्यासस्य अध्यक्षः नरेंन्द्रजीत-सिंह-बिन्द्रा उक्तवान् यत् अस्मिन् वर्षे तीव्र-हिमपातस्य कारणेन अपि यात्रा-आरम्भाय व्यापक-सज्जा: कृताः। सः अवदत् यत् यात्रा-पथे गुरुद्वार-परिसरे च हिम-निष्कासन-कार्यम् अत्यन्तं कठिनम् आसीत्, किन्तु सेनाया, स्थानीय-प्रशासनस्य, आरक्षक-व्यवस्थायाः अन्य-विभागानां च सहयोगेन तत् सफलतया सम्पन्नम्।

अस्मिन् अवसरे न्यासपक्षतः नव-स्वतन्त्र-पर्वतीय-ब्रिगेड-समूहः, स्थानीय-प्रशासनं, आरक्षक-प्रशासनं तथा अन्य-विभागानां अधिकारी-कर्मचारिणः सम्मानिताः। श्रद्धालूनां सुरक्षा, स्वास्थ्यं तथा यात्रा-सुविधा-सम्बद्धाः व्यापक-व्यवस्थाः कृता अस्ति।

उत्तराखण्ड-हिमालयस्य हिमाच्छादित-शिखराणां मध्ये स्थितं हेमकुण्ड-साहिबं सिक्ख-समुदायस्य परम-पवित्र-तीर्थेषु अन्यतमम् अस्ति। प्रतिवर्षं देश-विदेशेभ्यः लक्षशः श्रद्धालवः कठिन-पर्वतीय-यात्रां कृत्वा अत्र आगच्छन्ति। अस्मिन् वर्षे अपि यात्रायां श्रद्धालूनां विशेषः उत्साहः दृश्यते।

Hindusthan Samachar / अंशु गुप्ता