मार्कंडेय महादेव धाम्नि मृत्पात्राणि न क्षेप्तुम् आह्वानं, बालाः निष्काषितवन्तः जन चेतनायात्राम्
वाराणसी,23 मईमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणसीजिलायाः गङ्गागोमतीसङ्गमतटे कैथी-ग्रामे (चौबेपुरथानाक्षेत्रे) स्थितस्य मार्कण्डेयमहादेवधाम्नः गर्भगृहे अरघे च मृत्तिकामयजलपात्राणि प्लास्टिकनिर्मितजलपात्राणि च त्यक्तुं प्रचलितायाः दूष
श्री मार्कंडेय महादेव धाम में बच्चों की जनचेतना रैली


वाराणसी,23 मईमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिकनगरी वाराणसीजिलायाः गङ्गागोमतीसङ्गमतटे कैथी-ग्रामे (चौबेपुरथानाक्षेत्रे) स्थितस्य मार्कण्डेयमहादेवधाम्नः गर्भगृहे अरघे च मृत्तिकामयजलपात्राणि प्लास्टिकनिर्मितजलपात्राणि च त्यक्तुं प्रचलितायाः दूषितपरम्परायाः विरोधे शनिवासरे बालकैः जनचेतनारैली आयोजिता।

सामाजिकसंस्थायाः आशाट्रस्टस्य भन्दहाकलाप्रशिक्षणकेन्द्रात् आरभ्य कैथीग्राममार्गेण मन्दिरं यावत् बालकैः दर्शनार्थिभ्यः प्रार्थना कृता यत् गर्भगृहे अरघे वा मृत्तिकामयं प्लास्टिकनिर्मितं वा जलपात्रं न त्यजन्तु, अपितु तत् बहिः निर्धारितसुरक्षितस्थाने स्थापयन्तु।

यात्रायाः संयोजकः अमितकुमारः अवदत् यत् एतदेव एकं देवालयम् अस्ति यत्र जनाः अभिषेकानन्तरं जलपात्रम् अरघस्य अन्तरे एव निक्षिपन्ति, यत् अत्यन्तं दूषितपरम्परा अस्ति तथा च अस्य कारणात् दुष्टः सन्देशः प्रसारितो भवति।

छात्रा सेजलयादवः अवदत् यत् यदि धातुनिर्मितेन पात्रेण जलाभिषेकः क्रियते तर्हि पात्रं पुनः सह नीयते, तर्हि मृत्तिकामयं प्लास्टिकनिर्मितं वा जलपात्रम् अरघे किमर्थं त्यज्यते।

चेतनायात्रायां संयोजने अवनीशः, सौरभचन्द्रः, अमृता, सनी, अमितकुमारः इत्यादयः सम्मिलिताः आसन्।

-------------

Hindusthan Samachar / Dheeraj Maithani