Enter your Email Address to subscribe to our newsletters

नवदेहली, २३ मे-मासः (हि.स.)। अमेरिकादेशस्य विदेशमन्त्री मार्को रुबियो अद्यतः २६ मे-मास-पर्यन्तं भारतस्य चतुर्दिवसीययात्रायाः निमित्तं शनिवासरे प्रातःकाले कोलकातानगरम् आगतः। एषा यात्रा भारत-अमेरिकयोः सम्बन्धानां कृते महत्त्वपूर्णा मन्यते।
मार्को रुबियो अद्य प्रातःकाले कोलकातानगरम् आगतः, यत्र सः एकस्मिन् कार्यक्रमे सहभागं कृत्वा नवदेहल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना सह साक्षात्कारं करिष्यति। भारते अमेरिकादेशस्य राजदूतः सर्जियोगोरः ‘एक्स’ माध्यमेन अमेरिकीविदेशमन्त्रिणः मार्कोरुबियो इत्यस्य कोलकाताप्राप्तेः सूचनां प्रदत्तवान्। रुबियो स्वस्य अस्मिन् प्रवासे राजधानीं देहलीम् अपि च कोलकाता, आगरा, जयपुरनगरयोः भ्रमणं करिष्यति।
ऑस्ट्रेलियादेशस्य विदेशमन्त्री पेनीवोंगः तथा जापानदेशस्य विदेशमन्त्री तोशिमित्सुमोटेगी इत्येताभ्यां सह २६ मे-मासे नवदेहल्यां भविष्यमाणायां क्वाड्-विदेशमन्त्रिणां सभायां सहभागितुं आगतः रुबियो इत्यस्य एषा प्रथमा भारतयात्रा अस्ति। हिन्द-प्रशान्तप्रदेशे सामरिक-सहयोगं सुदृढं कर्तुं भारतम् २६ मे-मासे क्वाड्-देशानां विदेशमन्त्रिणां सभायाः आयोजनं करिष्यति।
Hindusthan Samachar / Divya Ranjan