Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 23 मईमासः (हि.स.)।
राज्यपालः लेफ्टिनेंटजनरल गुरमीतसिंहः (सेवानिवृत्तः) शनिवासरस्य प्रातःकाले लोकभवनपरिसरे तथा गोल्फकोर्सक्षेत्रे वन्यनिरीक्षणं कृत्वा विभिन्नपक्षिप्रजातीनाम् अवलोकनं कृतवान्। अस्मिन् अवसरे तेन पक्षिणां प्राकृतिकावासः, व्यवहारः, खाद्यप्रणाली तथा पर्यावरणीयमहत्त्वविषये सूचना प्राप्ता तथा जैवविविधतासंरक्षणे जनसहभागितायाः आवश्यकतायां बलं दत्तम्।
अस्मिन् अवसरे विशेषज्ञैः राज्यपालाय लोकभवनक्षेत्रे प्राप्तमानानां वनस्पतीनां, तितलीनां तथा पक्षिणां विषये सूचना प्रदत्ता तथा तेषां पारिस्थितिकीतन्त्रे योगदानविषये अवगतं कारितम्। बर्डवॉचिंगसमये ब्लूव्हिस्लिंगथ्रश, कोलटिट, ग्रेहेडेडवुडपेकर, ग्रीनबैक्डटिट, कलीजफीजेंट, स्मॉलनिल्टावा तथा यूरेशियनजे इत्यादीनां अनेकपक्षिप्रजातीनाम् अवलोकनं कृतम्। सहैव बांज, रिंगाल, देवदार, पांगर तथा मैपल इत्यादीनां वृक्षाणां तथा हिलजेजेबेल, इंडियनकैबेजव्हाइट तथा कॉमनवुडब्राउन इत्यादीनां तितलीनां परिचयः अपि कारितः।
राज्यपालः अवदत् यत् प्रकृतेः तथा जैवविविधतायाः संरक्षणं केवलं सर्वकारीप्रयत्नैः सम्भवं नास्ति, अपितु तदर्थं समाजस्य सक्रियसहभागिता अत्यावश्यकी अस्ति। तेन पर्यावरणसंरक्षणाय तथा पारिस्थितिकीयसन्तुलनस्य संरक्षणाय सामूहिकप्रयत्नानाम् आह्वानं कृतम्। अस्मिन् अवसरे प्रभागीयवनाधिकारी आकाशगंगवारः, उपप्रभागीयवनाधिकारी ममताचन्दः सहिताः नैनीतालवनप्रभागस्य तथा लोकभवनस्य दलस्य सदस्याः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani