वर्षातः प्राक् सक्रियो मंत्री, बिन्दाल नदी क्षेत्रस्य कृतवान् निरीक्षणम्
देहरादूनम्, 23 मईमासः (हि. स.)। मन्त्रिमण्डलस्य मन्त्री गणेश जोशी शनिवासरस्य प्रातःकाले विजयकॉलोनीक्षेत्रस्य भ्रमणं कृत्वा वर्षाकालात् पूर्वं सुरक्षात्मकव्यवस्थानां निरीक्षणं कृतवान्। अस्मिन् अवसरे तेन विजयकॉलोनीसेतुतः बद्रीनाथकॉलोनीपर्यन्तं बिन्दा
मंत्री गणेश जोशी  बिंदाल नदी  क्षेत्र में निरीक्षण करते हुए।


देहरादूनम्, 23 मईमासः (हि. स.)। मन्त्रिमण्डलस्य मन्त्री गणेश जोशी शनिवासरस्य प्रातःकाले विजयकॉलोनीक्षेत्रस्य भ्रमणं कृत्वा वर्षाकालात् पूर्वं सुरक्षात्मकव्यवस्थानां निरीक्षणं कृतवान्। अस्मिन् अवसरे तेन विजयकॉलोनीसेतुतः बद्रीनाथकॉलोनीपर्यन्तं बिन्दालनद्यां शीघ्रं चेनलाइजेशनकार्यस्य आरम्भार्थम् अधिकारिणः निर्देशाः दत्ताः।

मन्त्री गणेश जोशी उक्तवान् यत् मानसूनऋतोः प्रारम्भात् पूर्वमेव चेनलाइजेशनकार्यं प्राथमिकतायाः आधारेण सम्पन्नं भवेत्, येन जलसञ्चयात् सम्भावितायाश्च आपदः कारणेन क्षेत्रवासिनः किञ्चिदपि हानिं न प्राप्नुयुः। तेन उक्तं यत् जनसुरक्षा शासनस्य सर्वोच्चप्राथमिकता अस्ति तथा च सर्वाणि सुरक्षात्मककार्याणि समयबद्धरीत्या सम्पन्नानि भवितव्यानि।

निरीक्षणस्य समये मन्त्रिणा विजयपेयजलकालोन्यां पेयजलापूर्तिव्यवस्थायाः अपि निरीक्षणं कृतम्। तेन अधिकारिणः निर्देशिताः यत् ग्रीष्मऋतौ क्षेत्रवासिभ्यः पर्याप्तं पेयजलम् उपलब्धं क्रियताम् तथा च कस्यापि प्रकारस्य जलसमस्या उत्पन्ना न भवेत्। सहैव नियमितमॉनिटरिङ्गस्य सुनिश्चितीकरणार्थम् अपि निर्देशाः प्रदत्ताः।

तेन नीलकण्ठविहारक्षेत्रे, विजयकॉलोनीभागत्रयबस्तौ तथा मुख्यचतुष्पथस्य समीपे निवसतां जनानां गृहपर्यन्तं सुचारुपेयजलापूर्तेः सुनिश्चितीकरणाय अपि निर्देशाः दत्ताः।

अस्मिन् अवसरे सिंचाईविभागस्य अधिशासीअभियन्ता पुरुषोत्तमकुमारः, जलसंस्थानस्य अधिशासीअभियन्ता आशीषभट्टः, भाजपामण्डलाध्यक्षः प्रदीपरावतः, महामन्त्री भावनाचौधरी, पूर्वपार्षदः सत्येन्द्रनाथः सहिताः क्षेत्रस्य अनेके जनाः उपस्थिताः आसन्।