Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, २३ मे-मासः (हि.स.)। पश्चिम-बङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी राज्यस्य स्वास्थ्य-क्षेत्रे व्यापक-सुधाराणां नूतन-योजनानां च घोषणां कुर्वन् उक्तवान् यत् स्वास्थ्य-साथी-योजनया सम्बद्धाः प्रायः षट्-कोटि-जनाः अधुना केन्द्र-सर्वकारस्य आयुष्मान-भारत-योजनया सम्बद्धाः भविष्यन्ति। तेन एतत् राज्यस्य स्वास्थ्य-व्यवस्थायां “युगान्तकारी-परिवर्तनम्” इति निरूपितम् तथा उक्तं यत् अनेन लक्षशः परिवाराः उत्तमाः सुलभाः च स्वास्थ्य-सुविधाः प्राप्स्यन्ति।
शनिवासरे मुख्यमन्त्रिणा केन्द्रीय-स्वास्थ्य-विभागस्य अधिकारिभिः सह आभासीय-सभा कृता। ततः परं नवान्न-स्थले आयोजिते संवाददाता-सम्मेलने मुख्य-सचिवः मनोज-अग्रवालः प्रधान-सलाहकारः सुब्रत-गुप्तः च उपस्थितौ आस्ताम्। तत्र तेन स्वास्थ्य-क्षेत्रस्य विषये सर्वकारस्य नूतन-कार्ययोजनायाः विस्तृता सूचना प्रदत्ता।
मुख्यमन्त्री शुभेन्दु-अधिकारी पूर्ववर्तिनीं राज्य-सरकारं केन्द्र-सरकारस्य स्वास्थ्य-योजनानां विरोधस्य आरोपं कृतवान्। तेन उक्तं यत् राजनैतिक-कारणैः समन्वयस्य न्यूनतया च राज्यस्य कोटिशः जनाः केन्द्रस्य महत्त्वपूर्ण-स्वास्थ्य-योजनानां लाभं न प्राप्नुवन्। तेन उक्तं यत् नूतन-सर्वकारस्य गठनानन्तरं केन्द्रस्य विभिन्न-स्वास्थ्य-योजनानां समीक्षा कृता, अधुना च राज्ये व्यापक-स्तरे परिवर्तनानि प्रवर्त्यन्ते।
मुख्यमन्त्रिणः अनुसारम् आयुष्मान-भारत-योजनायाः कृते नामाङ्कन-प्रक्रिया आरब्धा अस्ति तथा जुलाई-मासात् कार्ड-वितरणस्य लक्ष्यम् निर्धारितम् अस्ति। तेन उक्तं यत् स्वास्थ्य-साथी-योजनायाः अन्तर्गतं पूर्वमेव पञ्जीकृताः षट्-कोट्यधिक-कार्डधारकाः प्रत्यक्षतया आयुष्मान-भारत-योजनया सम्बद्धाः भविष्यन्ति। एतेभ्यः अतिरिक्तं ये जनाः अद्यावधि स्वास्थ्य-साथी-योजनातः बहिः आसन्, तेऽपि नूतन-आवेदन-प्रक्रियया स्वास्थ्य-बीमायाः लाभं प्राप्स्यन्ति।
मुख्यमन्त्रिणा सूचितं यत् जून-मासस्य प्रथम-सप्ताहे दिल्ली-नगरे आयुष्मान-आरोग्य-मन्दिरसम्बद्धस्य महत्त्वपूर्ण-सन्धे: हस्ताक्षरं भविष्यति। अस्मिन् अवसरे केन्द्र-राज्य-सर्वकारयोः मन्त्रिणः वरिष्ठ-अधिकारिणः च उपस्थिताः भविष्यन्ति। तेन उक्तं यत् अस्याः नूतन-व्यवस्थायाः लाभः केवलं पश्चिम-बङ्गाल-राज्यपर्यन्तं सीमितः न भविष्यति, अपितु देशस्य अन्येषु राज्येषु निवसन्तः प्रायः एक-कोटि-बङ्गाल-निवासिनः अपि लाभान्विताः भविष्यन्ति। अनेन राज्यात् बहिः निवसद्भ्यः जनाभ्यः अपि चिकित्सायां आर्थिक-साहाय्यं उत्तमा स्वास्थ्य-सुरक्षा च प्राप्स्यते।
मुख्यमन्त्री शुभेन्दु-अधिकारी राज्ये सर्वाइकल-कर्कट-रोगस्य निवारणाय व्यापक-टीकाकरण-अभियानस्य आरम्भस्य घोषणाम् अपि कृतवान्। तेन उक्तं यत् केन्द्र-सरकारस्य एषा योजना फरवरी-मासे देशव्यापि प्रवर्तिता आसीत्, किन्तु पश्चिम-बङ्गाले अद्यावधि आरब्धा नासीत्। अधुना राज्ये १४-१५ वर्षीयाभ्यः बालिकाभ्यः सर्वाइकल-कर्कट-निरोधि-टीकाकरण-अभियानं ३० मे-दिनाङ्कात् आरभ्य भविष्यति। अस्य शुभारम्भः विधाननगर-सब्-डिविजनल-चिकित्सालयात् भविष्यति, यत्र सः स्वयम् उपस्थितः भविष्यति। तेन सूचितं यत् तस्मिन् एव दिने राज्ये “टीबी-मुक्त-भारत” कार्यशालायाः अपि आरम्भः भविष्यति, यस्य माध्यमेन तपेदिक-उन्मूलन-अभियानं अधिकं तीव्रं क्रियते।
मुख्यमन्त्री शुभेन्दु-अधिकारी उक्तवान् यत् राज्ये ४०० अधिक-प्रधानमन्त्री-जन-औषधि-केन्द्राणि उद्घाटितानि भविष्यन्ति। एतेषां केन्द्राणां माध्यमेन सामान्य-जनानां कृते न्यून-मूल्येन औषधानि उपलब्धानि भविष्यन्ति। तेन उक्तं यत् गम्भीर-रोगेषु प्रयुज्यमानानां महत्-मूल्ययुक्त-औषधानां मूल्ये ८० प्रतिशत-पर्यन्तं छूटः प्रदास्यते। उदाहरणरूपेण तेन उक्तं यत् विपण्यां २००० रूप्यक-मूल्यस्य औषधं जन-औषधि-केन्द्रेषु प्रायः २०० रूप्यकेषु उपलब्धं भविष्यति।
सर्वकारस्य मतम् अस्ति यत् अनेन आर्थिक-रूपेण दुर्बलानां मध्यम-वर्गीय-परिवाराणां च महान् लाभः भविष्यति।
मुख्यमन्त्री उक्तवान् यत् राज्य-सर्वकारः प्रत्येकस्मिन् जनपदे चिकित्सा-महाविद्यालयस्य स्थापनायाः दिशि अपि कार्यं करोति। वर्तमाने अलीपुरद्वार, कलिम्पोंग, आसनसोल तथा दक्षिण-दिनाजपुर-प्रशासनिक-जनपदेषु चिकित्सा-महाविद्यालया: न सन्ति। एतेषां जनपदानां कृते आवश्यक-भूमिः प्रस्तावः च शीघ्रमेव केन्द्र-सरकाराय प्रेष्यते। सहैव उत्तर-बङ्गाले अखिल-भारतीय-आयुर्विज्ञान-संस्थानस्य (एम्स्) स्थापनायाः दिशि अपि प्रयत्न: क्रियते।
मुख्यमन्त्रिणा राज्ये पञ्च-वर्षात् न्यून-वयस्कानां बालकानां मृत्युदरस्य विषये चिन्ता व्यक्ता। तेन उक्तं यत् केषुचित् जनपदेषु बाल-मृत्युदरः अपेक्षया अधिकः अस्ति, यस्य न्यूनीकरणाय विशेष-स्वास्थ्य-योजनानां निरीक्षणस्य च आवश्यकता वर्तते। तेन विशेषतया कोलकाता, मुर्शिदाबाद, पूर्व-बर्धमान, बीरभूम तथा मालदा-जनपदानां स्थितेः विषये चिन्ता प्रकटिता तथा अधिकारिभ्यः आवश्यक-पदानि ग्रहीतुं निर्देशाः प्रदत्ताः।
मुख्यमन्त्रिणा सूचितं यत् चलित-वित्त-वर्षे केन्द्र-सरकारेण पश्चिम-बङ्गालस्य कृते २१०३ कोटि-रूप्यकाणां राशि: स्वीकृता अस्ति, यस्याः चतुर्थांश-धनराशिः राज्याय हस्तान्तरिता अपि अस्ति। तेन उक्तं यत् एषा राशि: स्वास्थ्य-संरचनायाः सुदृढीकरणाय, चिकित्सासुविधानां विस्ताराय, सामान्य-जनानां कृते उत्तम-स्वास्थ्य-सेवानां प्रदाने च उपयुज्यते।
Hindusthan Samachar / Divya Ranjan