Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 मईमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण सर्वकारीनियुक्तिप्रक्रियायां पारदर्शितां वर्धयितुं महत्त्वपूर्णः निर्णयः कृतः। अधुना नियुक्तिपरीक्षासु सहभागीभवन्तः अभ्यर्थिनः स्वीयायाः ओएमआर-पत्रिकायाः कार्बनप्रतिलिपिं अनिवार्यरूपेण प्राप्स्यन्ति।
सियालदह-नगरे शनिवासरे आयोजिते सर्वकारी ‘रोजगारमेला’ कार्यक्रमे मुख्यमन्त्री शुभेन्द्वधिकारी एतस्य घोषणां कृतवान्। अस्मिन् अवसरे केन्द्रीयराज्यमन्त्री भाजपानेता च सुकान्तमजूमदारः अपि उपस्थितः आसीत्।
मुख्यमन्त्रिणा उक्तं यत् नियुक्तिप्रक्रियायाः सुधारार्थं विधानसभायाः अग्रिमसत्रे नूतनः नियमः आनयिष्यते। तेन पूर्ववर्तिन्याः तृणमूलकाङ्ग्रेस-सरकारस्य उपरि नियुक्तिभ्रष्टाचारविषये आरोपः कृतः। स उक्तवान् यत् पूर्वं ओएमआर-पद्धत्या परीक्षाः आयोज्यन्ते स्म, किन्तु अभ्यर्थिभ्यः स्वीयोत्तरपत्रिकायाः कार्बनप्रतिलिपिः न प्रदीयते स्म।
सः उक्तवान्, “प्रत्येकस्य रोजगाराभ्यर्थिनः समीपे ओएमआर-पत्रिकायाः कार्बनप्रतिलिपिः भवितव्या। एताः प्रतिलिपयः व्यवस्थायाः अन्तः एव सीमिताः स्थाप्यन्ते स्म, यस्य कारणात् भ्रातृपक्षपातस्य भ्रष्टाचारस्य च आरोपाः समुत्पन्नाः। अधुना एषा व्यवस्था परिवर्तिता भविष्यति।”
मुख्यमन्त्रिणा उक्तं यत् सर्वकारः लिखितपरीक्षायाः शैक्षणिकयोग्यतायाः साक्षात्कारस्य च अङ्कवितरणस्य पुनरवलोकनं करोति, येन नियुक्तिप्रक्रिया अधिकपारदर्शिनी भवेत्। विशेषतः साक्षात्काराङ्कानां भारं न्यूनीकर्तुं विचारः क्रियते, यतः अस्मिन् क्षेत्रे एव अधिकतमाः पक्षपातस्य आरोपाः अभवन्।
शुभेन्द्वधिकारी आरोपं कृतवान् यत् पूर्वसर्वकारस्य कार्यकाले नियुक्तिप्रक्रियायां व्यापकस्तरे भ्रष्टाचारः अभवत्, येन समग्रदेशे राज्यस्य छविः प्रभाविताभवत्। सः उक्तवान् यत् अधुना सरकारः विश्वसनीयां पारदर्शिनीं च नियुक्तिव्यवस्थां स्थापयित्वा अभ्यर्थिनां विश्वासं पुनः प्रतिष्ठापयितुम् इच्छति।
Hindusthan Samachar / Dheeraj Maithani