अलीगढ़ं भविष्यति उत्तरप्रदेशस्य नूतन स्पोर्ट्स पावर हाउसकेंद्रं, मुख्यमंत्री योगी समर्पयिष्यते ओलंपिक स्टैंडर्ड कॉम्प्लेक्स इत्येतत्
पश्चिमी उत्तर प्रदेशाय महोपहारः क्रीडकेभ्यो नूतना आशा नूतनानाम्अवसराणां भविष्यति नूतनं केंद्रम् अधुना लघुनगरेभ्यः चमत्कृताः भविष्यन्ति तारकाः, अलीगढ़े 13,000 स्क्वायर मीटरपरिमिते विश्वस्तरीय स्पोर्ट्स कॉम्प्लेक्स इत्येतत् तरणीयसेतुतः मल्टीपर्प
मुख्यमंत्री योगी आदित्यनाथ


पश्चिमी उत्तर प्रदेशाय महोपहारः क्रीडकेभ्यो नूतना आशा नूतनानाम्अवसराणां भविष्यति नूतनं केंद्रम्

अधुना लघुनगरेभ्यः चमत्कृताः भविष्यन्ति तारकाः, अलीगढ़े 13,000 स्क्वायर मीटरपरिमिते विश्वस्तरीय स्पोर्ट्स कॉम्प्लेक्स इत्येतत्

तरणीयसेतुतः मल्टीपर्पज हॉलस्थलं यावत्, अलीगढाय क्रीडा सुविधानां सर्वतो महान्उपहारः

लखनऊ, 24 मईमासः (हि.स.)

उत्तरप्रदेशे क्रीडाक्रान्तेः नूतनगतिं दत्त्वा योगी-शासनम् अलीगढमण्डलाय एतादृशमुपहारं दातुं गच्छति, या आगामिवर्षेषु प्रदेशस्य क्रीडाप्रतिभानां दिशां परिवर्तयिष्यति। १३,००० वर्गमीटरपरिमिते क्षेत्रे निर्मितः ५७ कोटिरूप्यकाधिकव्ययेन सिद्धः ओलम्पिक-मानक-इन्डोर-क्रीडासम्पुटः अधुना पूर्णतया सज्जः अस्ति। मुख्यमन्त्री योगी आदित्यनाथः शीघ्रमेव एनं जनतायै समर्पयिष्यति। अत्याधुनिकसुविधाभिः सुसज्जितः अयं परिसरः केवलम् अलीगढस्य न, अपितु सम्पूर्णपश्चिमोत्तरप्रदेशस्य क्रीडकानां कृते नूतनाशानां नूतनावसराणां च केन्द्रं भविष्यति।

नगरायुक्तः प्रेमप्रकाश मीणा अवदत् यत् एषः मण्डलस्य प्रथमः एतादृशः विश्वस्तरीयः इन्डोर-क्रीडासम्पुटः अस्ति, यत्र राष्ट्रिय-अन्ताराष्ट्रियमानकानुसारं क्रीडासुविधाः विकसिताः सन्ति। योगी-शासनस्य अभिप्रायः केवलं क्रीडाङ्गणनिर्माणं नास्ति, अपितु ग्रामाणां, कस्बानां तथा लघुनगराणां प्रतिभाभ्यः एतादृशं मंचं प्रदातुम् अस्ति, यतः ते राष्ट्रिय-अन्ताराष्ट्रियस्तरपर्यन्तं स्वीयां परिचिति निर्मातुं शक्नुवन्ति।

राष्ट्रियस्पर्धानां कृते सज्जाः विश्वस्तरीयसुविधाः

अस्य विशालस्य क्रीडापरिसरस्य प्रमुखविशेषता तस्य राष्ट्रियस्तरीयः तारणकुण्डः अस्ति। अत्याधुनिकप्रविध्या निर्मितः अयं कुण्डः भविष्ये राज्यस्तरीय-राष्ट्रियस्तरीयस्पर्धानाम् आयोजनकेन्द्रं भवितुम् अर्हति। अद्यावधि महानगराणाम् उपरि आश्रिताः अलीगढमण्डलस्य तैराकाः अधुना स्वनगर एव उच्चस्तरीयाभ्यासस्य स्पर्धानां च अवसरं प्राप्स्यन्ति।

सम्पुटे आधुनिकः बहूद्देश्यीयः कक्षः अपि निर्मितः अस्ति, यत्र विविधाः अन्तःकक्षीयक्रीडास्पर्धाः आयोजयितुं शक्यन्ते। बैडमिन्टन तथा बास्केटबॉल-क्रीडाङ्गणे अन्ताराष्ट्रियमानकानुसारं सज्जीकृते स्तः। एतेन सह बिलियर्ड्स-कक्षः तथा उच्चप्रविधियुक्तः व्यायामशाला अपि क्रीडकानां कृते उपलब्धा अस्ति। व्यावसायिकप्रशिक्षणं स्वास्थ्यविकासं च मनसि निधाय निर्मितः अयं परिसरः क्रीडकानां कृते महानगरसदृशसुविधाः प्रदास्यति।

क्रीडकभ्यः आरभ्य दर्शकेभ्यः पर्यन्तं सर्वासां सुविधानां विचारः कृतः

स्पोर्ट्स-कॉम्प्लेक्स इत्येतत् केवलम् अभ्यासकेन्द्रं न, अपितु विशालक्रीडायोजनानां कृते सम्पूर्णः क्रीडाकेन्द्ररूपेण विकसितः अस्ति। दर्शकानां सुविधार्थम् अत्याधुनिकदर्शकदीर्घा निर्मिता अस्ति, यत्र बहुसंख्याकाः जनाः उपविश्य स्पर्धानां आनन्दं भोक्तुं शक्नुवन्ति। एतदतिरिक्तं वीआईपी-कक्षः, माध्यमकक्षः तथा आधुनिक-लाउञ्ज-क्षेत्रम् अपि निर्मितम् अस्ति, येन राष्ट्रियस्तरीयकार्यक्रमाः सुलभतया आयोजयितुं शक्यन्ते। अनेन अलीगढं भविष्ये विशालक्रीडायोजनानां आतिथ्याय अपि सज्जं मन्यते।

अधुना लघुनगरेभ्यः उद्भविष्यन्ति महान् प्रतिभाः

नगरायुक्तः प्रेमप्रकाश मीणा अवदत् यत् अस्य सम्पुटस्य आरम्भानन्तरम् अलीगढस्य समीपवर्तिजनपदानां च क्रीडकानां प्रशिक्षणार्थं दिल्ली, नोएडा अथवा लखनऊ इत्यादीनि नगराणि प्रति गन्तुं आवश्यकता न भविष्यति। अधुना स्थानीयप्रतिभाभ्यः स्वक्षेत्र एव विश्वस्तरीयसुविधाः प्राप्स्यन्ते। अनेन आर्थिकरूपेण दुर्बलानाम् किन्तु प्रतिभाशालिनां क्रीडकानां महान् लाभः भविष्यति। आगामिसमये अयं परिसरः अलीगढं उत्तरप्रदेशस्य प्रमुखक्रीडाकेन्द्ररूपेण स्थापयिष्यति। अत्र नियमितप्रशिक्षणेन स्पर्धायोजनैश्च राष्ट्रियस्तरीयक्रीडकनिर्माणस्य सम्भावना वर्धिष्यते।

‘क्रीडिष्यति यूपी, विकसिष्यति यूपी’ इति दृष्टिकोणाय नूतना शक्तिः

मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे प्रदेशे क्रीडामूलसंरचना निरन्तरं सुदृढीक्रियते। ग्रामेषु लघुक्रीडाङ्गणानि, जनपदेषु स्पोर्ट्स-कॉम्प्लेक्साः तथा अन्तर्राष्ट्रीयस्तरीयसुविधानां निर्माणद्वारा शासनं युवानः क्रीडाभिः संयोजयितुं योजनां क्रियान्वितवती अस्ति। अलीगढस्य अयं स्पोर्ट्स-कॉम्प्लेक्सः तस्यैव दृष्टिकोणस्य महत् उदाहरणं मन्यते।

क्रीडारसिकेषु उत्साहः, अलीगढाय नूतनपरिचितेः अपेक्षा

सम्पुटस्य सिद्धतया क्रीडारसिकेषु स्थानीयनागरिकेषु च उत्साहः दृश्यते। स्थानीयजनानां मतम् अस्ति यत् एषा परियोजना आगामिसमये अलीगढस्य कृते गेम-चेञ्जर् सिद्धा भविष्यति। यस्य अलीगढस्य परिचितिः अद्यावधि तालोद्योगेन शैक्षणिकसंस्थानैश्च सम्बद्धा आसीत्, अधुना तत् नगरं क्रीडाप्रतिभानां नूतनकेन्द्ररूपेण अपि उद्भवितुं शक्नोति। स्थानीयक्रीडकाः वदन्ति यत् विश्वस्तरीयसुविधाभिः सह अभ्यासस्य अवसरप्राप्त्या अधुना तेषां स्वप्नानां नूतना उड्डयनशक्तिः भविष्यति। क्रीडाजगतः आशास्ति यत् आगामिवर्षेषु अलीगढात् राष्ट्रिय-अन्ताराष्ट्रियस्तरस्य अनेकाः क्रीडकाः निर्गमिष्यन्ति तथा प्रदेशस्य नाम प्रकाशयिष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani