Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ मे-मासः (हि.स.)। अमेरिकादेशस्य विदेशमन्त्री तथा राष्ट्रिय-सुरक्षा-परामर्शदाता मार्को-रूबियो इत्यनेन रविवासरे राष्ट्रिय-सुरक्षा-परामर्शदाता अजीत-डोभालेन सह साक्षात्कारः कृतः। उभयोः नेतृणां मध्ये रक्षा-सुरक्षा-रणनीतिक-प्रौद्योगिकी-सहयोग-विषये विस्तीर्णा चर्चा अभवत्। वार्तायां विशेषतः ‘ट्रस्ट’ (रणनीतिक-प्रौद्योगिकी-प्रयोगेन सम्बन्धानां रूपान्तरण-योजना) इत्यस्य प्रयत्नसम्बद्ध-सहकार्यं अग्रे नेतुं बलं दत्तम्।
विदेश-मन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः उक्तवान् यत् उभौ राष्ट्रिय-सुरक्षा-परामर्शदातारौ भारत-अमेरिका-व्यापक-वैश्विक-रणनैतिक-सहभागिताम् उच्च-प्राथमिकतायां स्थापयितुं प्रतिबद्धतां पुनः प्रतिपादितवन्तौ। सभायां क्षेत्रीय-वैश्विक-विषयेषु अपि विचार-विनिमयः अभवत्।
उल्लेखनीयम् अस्ति यत् अमेरिकीय-विदेशमन्त्री भारत-यात्रायां वर्तते। अद्य प्रातः सः विदेशमन्त्री डॉ. एस. जयशङ्करेण सह प्रतिनिधि-मण्डल-स्तरीयां वार्तां कृतवान्।
Hindusthan Samachar / Divya Ranjan