प्राथमिक शिक्षायाम् उत्तरप्रदेशः निर्मितः परिचयः, परिषदीय विद्यालयानां परिवर्तितं स्वरूपं निर्मितं ‘योगीप्रारूपः’
लखनऊ, 24 मईमासः (हि.स.)। उत्तरप्रदेशे योगी आदित्यनाथस्य नेतृत्वे आधारभूतशिक्षा अधुना केवलं भवननिर्माणे तथा नामाङ्कने एव बलं न ददाति, अपितु परिषदीयविद्यालयान् आधुनिक-स्मार्ट-तन्त्रज्ञानाधारित-शिक्षाकेन्द्रेषु परिवर्तयितुं व्यापकः अभियानः प्रचलति।
योगी आदित्यनाथ


लखनऊ, 24 मईमासः (हि.स.)।

उत्तरप्रदेशे योगी आदित्यनाथस्य नेतृत्वे आधारभूतशिक्षा अधुना केवलं भवननिर्माणे तथा नामाङ्कने एव बलं न ददाति, अपितु परिषदीयविद्यालयान् आधुनिक-स्मार्ट-तन्त्रज्ञानाधारित-शिक्षाकेन्द्रेषु परिवर्तयितुं व्यापकः अभियानः प्रचलति। ये शासकीयविद्यालयाः कदाचित् जीर्णभवनैः तथा मूलभूतसुविधानाम् अभावेन चर्चायाम्आसन्, ते अधुना ‘योगीप्रारूपस्य’ अन्तर्गतं नूतनां परिचितिं निर्मान्ति।

योगी-शासनस्य महतीषु उपलब्धिषु सम्मिलितम् ‘ऑपरेशन-कायाकल्प’ इति अभियानं प्रदेशस्य परिषदीयविद्यालयानां चित्रं परिवर्तितवति। अस्य अभियानस्य अन्तर्गतं अधुना यावत् १.३२ लक्षविद्यालयाः आच्छादिताः सन्ति। वर्षे २०१७-१८ तमे यदा विद्यालयानां सन्तृप्तिकरणं केवलं ३६ प्रतिशतम् आसीत्, तदा अधुना तत् वर्धित्वा ९६.३० प्रतिशतपर्यन्तं प्राप्तम् अस्ति। एषः परिवर्तनः अधुना ग्राम्यप्रदेशेषु स्थितेषु शासकीयविद्यालयेषु स्पष्टतया दृश्यते।

३.४२ लक्ष डेस्क-बेञ्च-उपलब्धतायाः कार्यवाही तीव्रा

विद्यालयेषु बालकानां कृते उत्तमोपवेशनव्यवस्था सुनिश्चितीकर्तुं ३.४२ लक्ष डेस्क-बेञ्च-उपलब्धतायाः कार्यवाही तीव्रतया प्रचलति। एतेन सह सर्वे प्राथमिकविद्यालयाः स्मार्ट-विद्यालयरूपेण विकसितुं विशेषयोजना क्रियान्विता अस्ति, यतः ग्राम्यप्रदेशानां बालकाः अपि तन्त्रज्ञानाधारितशिक्षया सम्बद्धाः भवेयुः।

प्रारूप-विद्यालयैः शिक्षाव्यवस्थायै नूतना दिशा प्राप्यते

योगी-शासनं अधुना परिषदीयशिक्षां आधुनिक-समग्र-शिक्षामॉडलेन सह संयोजयितुं विशेषबलं ददाति। अस्यैव क्रमस्य अन्तर्गतं प्रदेशस्य सर्वेषु ७५ जनपदेषु द्वौ-द्वौ मुख्यमन्त्री-मॉडल्-कम्पोजिट-विद्यालयौ स्थापयितुं निर्णयः कृतः अस्ति। प्री-प्राइमरी-कक्षातः आरभ्य द्वादशकक्षापर्यन्तं सञ्चालितेषु १५० मुख्यमन्त्री-मॉडल्-कम्पोजिट-विद्यालयेषु १४१ विद्यालयानां कृते भूमिचयनप्रक्रिया पूर्णा जाता अस्ति। एते विद्यालयाः आधुनिककक्षाभिः, डिजिटल-शिक्षणसंसाधनैः, स्मार्ट-क्लास्, प्रयोगशालाभिः तथा क्रीडासुविधाभिः सुसज्जिताः भविष्यन्ति, येन शासकीयविद्यालयानां बालकाः अपि निजीविद्यालयसदृशसुविधाः प्राप्नुयुः। एतेन सह ७५ मुख्यमन्त्री-अभ्युदय-कम्पोजिट-विद्यालयाः अपि विकसिताः भवन्ति, यत्र प्री-प्राइमरी-कक्षातः आरभ्य अष्टमकक्षापर्यन्तं बालकानां कृते आधुनिकसुविधाभिः सह गुणवत्तायुक्ता शिक्षा प्रदास्यते।

बालिकाशिक्षायाः उपरि विशेषः केन्द्रितभावः

राज्यशासनस्य प्रवक्ता अवदत् यत् शासनं बालिकाशिक्षां सुदृढां कर्तुं महत् पदम् उपन्यस्तवती अस्ति। येषु विकासखण्डेषु कस्तूरबा-गान्धी-बालिका-विद्यालयाः न सन्ति, तत्र नूतनाः आवासीय-बालिका-विद्यालयाः स्थापयितुं निर्णयः कृतः अस्ति। अनेन दूरवर्ती-वञ्चितप्रदेशानां कन्याभ्यः सुरक्षितं उत्तमं च शैक्षिकवातावरणं प्राप्तुं शक्यते।

Hindusthan Samachar / Dheeraj Maithani