इबोलायां केंद्रसर्वकारस्य देशवासिभ्यः परामर्शः, कांगो, युगांडा अथ दक्षिण सूडानम् इत्यादीनां यात्रातः रक्षणीयम्
नव दिल्ली, 24 मईमासः (हि.स.)। केन्द्रसर्वकारेण इबोला-प्रभावितदेशेषु परिवर्तमानस्थितिं दृष्ट्वा तथा विश्वस्वास्थ्यसंगठनस्य (डब्ल्यूएचओ) अनुशंसानुसारं सर्वेभ्यः भारतीयनागरिकेभ्यः अग्रिमसूचनापर्यन्तं कांगो, युगांडा तथा दक्षिण सूडानदेशस्य अनावश्यकयात
Ebola alert


नव दिल्ली, 24 मईमासः (हि.स.)।

केन्द्रसर्वकारेण इबोला-प्रभावितदेशेषु परिवर्तमानस्थितिं दृष्ट्वा तथा विश्वस्वास्थ्यसंगठनस्य (डब्ल्यूएचओ) अनुशंसानुसारं सर्वेभ्यः भारतीयनागरिकेभ्यः अग्रिमसूचनापर्यन्तं कांगो, युगांडा तथा दक्षिण सूडानदेशस्य अनावश्यकयात्रां परित्यक्तुं परामर्शः प्रदत्तः।

कांगो, युगांडा तथा तस्य सीमासु स्थितेषु दक्षिण सूडान एवं अन्येषु देशेषु रोगप्रसारणस्य अत्यधिकः भयः वर्तते।

स्वास्थ्यमन्त्रालयेन एषः परामर्शः निर्गतः। परामर्शानुसारं ये भारतीयनागरिकाः वर्तमानकाले एतेषु देशेषु निवसन्ति अथवा यात्रां कुर्वन्ति, तेभ्यः परामर्शः दीयते यत् ते स्थानीयप्राधिकरणैः निर्गतानि सार्वजनिकस्वास्थ्य-निर्देशान् कठोरतया पालनं कुर्वन्तु तथा अतिरिक्तसावधानतां वहन्तु।

डब्ल्यूएचओ संस्थायाः आपत्कालीनसमित्या २२ मई दिवसे आगमन-प्रवेशबिन्दुषु रोगनिगराण्याः सुदृढीकरणाय कतिपयानि अस्थायि-अनुशंसानि निर्गतानि।

एतासु अनुशंसासु ‘बुंडिबुग्यो विषाणु-प्रभावितक्षेत्राणां यात्रां न कर्तव्या’ इति अपि परामर्शः प्रदत्तः।

भारते बुंडिबुग्यो विषाणु-प्रकारेण उत्पन्नस्य इबोला-रोगस्य अद्यपर्यन्तं किमपि प्रकरणं न प्राप्तम्। इबोला-रोगः एकः विषाणुजन्यः रक्तस्रावी-ज्वरः अस्ति, यः इबोला-विषाणोः ‘बुंडिबुग्यो’ प्रकारस्य संक्रमणेन भवति। एषः अत्यन्तगम्भीरः रोगः अस्ति, यस्मिन् मृत्युदरः अत्यधिकः भवति। वर्तमानकाले बुंडिबुग्यो-प्रकारजनितस्य इबोला-रोगस्य निवारणाय अथवा उपचाराय कस्यापि टीकायाः अथवा विशिष्ट-चिकित्सायाः अनुमोदनं न प्रदत्तम्।

विश्वस्वास्थ्यसंगठनेन अन्ताराष्ट्रियस्वास्थ्यविनियम २००५ इत्यस्य अन्तर्गतं १७ मई दिवसे एषा स्थितिः ‘अन्तरराष्ट्रीयचिन्तायाः सार्वजनिकस्वास्थ्य-आपत्कालः’ इति घोषितवती।

अफ्रीकी-रोग-नियन्त्रण-निवारण-केन्द्रेण अपि डेमोक्रेटिक रिपब्लिक ऑफ द कांगो तथा युगांडा देशयोः प्रभावितं बुंडिबुग्यो-प्रकारस्य इबोला-विषाणु-रोगस्य वर्तमान-प्रकोपं आधिकारिकरूपेण ‘महाद्वीपीयसुरक्षायाः सार्वजनिकस्वास्थ्य-आपत्कालः’ इति घोषितः।

---------------

Hindusthan Samachar / Dheeraj Maithani