Enter your Email Address to subscribe to our newsletters

१९९५ तमे वर्षे विज्ञानस्य इतिहासे एकः महान् उपलब्धिरूपेण अभिलिखितम् अस्ति। अस्मिन्नेव वर्षे अमेरिकीवैज्ञानिकैः प्रथमवारं कस्यचित् जीवितजीवस्य डीएनए सफलतया डिकोड् कर्तुं सिद्धिः प्राप्ता आसीत्। अस्याः उपलब्धेः कारणेन आनुवंशिकी (जेनेटिक्स) तथा आधुनिक जैवप्रौद्योगिकी क्षेत्रयोः नवीनसंभावनानां द्वाराणि उद्घाटितानि।
वैज्ञानिकैः हीमोफिलस इन्फ्लुएंजा नामकस्य एकस्य जीवाणोः सम्पूर्णस्य जीनोमस्य अनुक्रमः (जीनोम सीक्वेंसिंग) निर्मितः। एषः प्रथमः अवसरः आसीत् यदा स्वतन्त्ररूपेण जीवितुं समर्थस्य जीवस्य सम्पूर्ण आनुवंशिकसंकेतस्य पठनं कृतम्। एतत् कार्यम् अमेरिकीवैज्ञानिकानां दलद्वारा अत्याधुनिकतन्त्रज्ञानस्य साहाय्येन सम्पन्नम्।
डीएनए डिकोडिंगस्य अस्य सफलतायाः कारणेन एतत् ज्ञातुं साहाय्यम् अभवत् यत् जीवेषां संरचना, विकासः तथा कार्यप्रणाली कथं तेषां आनुवंशिकनिर्देशैः नियन्त्र्यन्ते। अनन्तरवर्षेषु एषैव तकनीक मानव जीनोम परियोजना सहित अनेकानां महान् वैज्ञानिक-अभियानानां आधारशिला अभवत्।
विशेषज्ञानां मतानुसारम्, अस्याः आविष्कारस्य प्रभावः चिकित्साविज्ञान, रोगपरिचय, नवीनौषधानां विकासः तथा जैविक-अनुसन्धान-क्षेत्रेषु अत्यन्तं महत्त्वपूर्णः आसीत्। अद्य जीनोम सीक्वेंसिंग तकनीकस्य उपयोगः कर्कटरोग, आनुवंशिकरोग तथा व्यक्तिगतचिकित्सा इत्यादिषु क्षेत्रेषु व्यापकतया क्रियते। १९९५ तमे वर्षे एषा उपलब्धिः आधुनिकविज्ञानस्य तासु ऐतिहासिकघटनासु गण्यते, या मानवज्ञानस्य सीमाः नूतनदिशां प्रति प्रेषितवती।
महत्त्वपूर्ण घटनाचक्रम्
१६११ - मुगलशासकः जहांगीरः मेहरून्निसा इत्यस्याः सह निकाहम् अकरोत्, या इतिहासे नूरजहां इति नाम्ना प्रसिद्धा अभवत्।
१८७७ - यात्रिभिः पूर्णः ‘सर जॉन लारेंस’ नामकः स्टीमर उड़ीसा-तटस्य समीपे निमग्नः। स्टीमरे आहत्य७३२ जनाः आरूढाः आसन्।
१९६१ - अमेरिकादेशस्य राष्ट्रपतिः जॉन एफ़ केनेडी देशस्य अन्तरिक्ष-अभियानस्य आरम्भाय लक्षाधिक-डॉलर-राशेः घोषणाम् अकरोत्। तेन १९७० तमे वर्षे अमेरिकादेशं चन्द्रलोकं प्रति प्रेषयितुं लक्ष्यं निर्धारितम्।
१९६३ - अफ्रीकीदेशानाम् एकीकरणस्य उद्देशेन ३२ देशैः अफ्रीकीसंघस्य गठनम् कृतम्।
१९८५ - बांग्लादेशे प्रबलतूफानस्य कारणेन प्रायः १० सहस्रजनानां मृत्युः अभवत्।
१९९१ - इस्राइलदेशेन १४ सहस्र यहूदिजनाः इथियोपियादेशात् निष्कासिताः।
१९९५ - अमेरिकीवैज्ञानिकानां प्रथमवारं जीवितजीवस्य डीएनए परीक्षणंकर्तुं सफलता प्राप्ता।
१९९८ - परमाणुपरीक्षणानां कारणेन भारतस्य उपरि प्रतिबन्धं न स्थापयितुं यूरोपीयसंघस्य सर्वे १५ सदस्यदेशाः सहमताः।
२००३ - चिलीदेशेन प्रथमवारं विश्वकप टेनिस-खिताबः जितः।
२००६ - नासा संस्थया जीओईएसएन नामकः वातावरण-उपग्रहः अन्तरिक्षे प्रेषितः।
२००६ - संयुक्तराज्य-अमेरिकादेशेन पोत-आधारित इंटरसेप्टर मिसाइलस्य सफलपरीक्षणम् कृतम्।
२००७ - श्रीलंकासर्वकारेण तमिल-शरणार्थिनां नागरिकतायाः विषये सैद्धान्तिकी अनुमतिः प्रदत्ता।
२००८ - कर्नाटकविधानसभायाः २२४ स्थानेषु ११० स्थानानि जित्वा भाजपा दक्षिणभारतस्य कस्मिंश्चित् राज्ये प्रथमवारं सरकार-निर्माणे सफलाभवत्।
२००८ - संयुक्तराष्ट्रसंघस्य महासचिवः बान की मून चीनदेशस्य भूकम्प-प्रभावितक्षेत्रस्य भ्रमणम् अकरोत्।
२००८ - दक्षिण-अमेरिकी-महाद्वीपस्य द्वादशदेशैः यूरोपीययूनियनस्य आदर्शे एकस्य नवीनसंगठनस्य गठनम् कृतम्।
२००८ - हेग-स्थितेन अन्ताराष्ट्रियन्यायालयेन विवादितः पुलाऊ बाटू द्वीपः सिंगापुरदेशाय हस्तान्तरितः।
२००८ - कोलम्बियादेशे विद्रोहीगुटस्य रेवल्यूशनरी आर्म्ड फोर्स ऑफ कोलम्बिया इत्यस्य संस्थापकस्य तथा शीर्ष-सेनानायकस्य मृत्युः अभवत्।
२००८ - अमेरिकी अन्तरिक्षसंस्था नासा द्वारा प्रेषितः रोबोटः अद्यैव मङ्गलग्रहे अवतरितः।
२०१० - भारतीयमूलस्य ५९ वर्षीयाः कमला प्रसाद बिसेसर निवर्तमानप्रधानमन्त्री पैट्रिक मैनिंग इत्येनं पराजित्य त्रिनिदाद एवं टोबेगो देशस्य प्रथममहिला-प्रधानमन्त्री निर्वाचिता।
२०११ - द ओपरा विनफ्रे शो इत्यस्य अन्तिमकण्डिकायाः प्रसारणम् अभवत्। दीर्घकालपर्यन्तं प्रसारितः एषः दूरदर्शन-कार्यक्रमः ओपरा इत्यस्याः अमेरिकादेशस्य अत्यन्तं धनाढ्या तथा प्रभावशालिनी व्यक्तित्वं निर्मितवान्।
२०१३ - जापानदेशस्य ८० वर्षीयः युइशिरो मिडरा सर्वाधिकवयसा माउंट एवरेस्ट शिखरम् आरोढुं कीर्तिमानं स्थापितवान्।
जन्म
१८०३ - राल्फ वाल्डो इमर्सनः - प्रसिद्धः अमेरिकी-निबंधकारः दार्शनिकश्च।
१८३१ - दाग देहलवी - प्रसिद्धः उर्दू-शायरः।
१८८६ - रास बिहारी बोसः - भारतीयक्रान्तिकारी, प्रख्यातः विधिवेत्ता शिक्षाविद् च।
१८८९ - इगोर सिकोर्स्की - प्रसिद्धः रूसी-अमेरिकी विमानन-अभियन्ता, येन प्रथमः व्यवहारिकः हेलीकॉप्टरः निर्मितः।
१९६३ - माइक मायर्स - कनाडादेशीयः हास्य-अभिनेता।
१९७२ - करण जौहरः - भारतीयचलच्चित्र-जगतः प्रसिद्धः चलचित्र-निर्माता निर्देशकश्च।
१९७७ - कार्तिक शिवकुमारः - तमिलचलच्चित्र-जगतः प्रसिद्धः अभिनेता।
निधनानि
१९२४ - सर आशुतोष मुखर्जी - बंगालप्रदेशस्य प्रसिद्धः बैरिस्टरः शिक्षाविद् च।
१९३३ - बासदियो पांडेय - त्रिनिदाद एवं टोबैगो देशस्य पूर्वप्रधानमन्त्री।
१९७४ - कृष्ण चन्द्र गजपति - भारतस्य स्वतन्त्रतासेनानिषु अन्यतमः।
१९७८ - बीरेन मित्रा - भारतीयराजनीतिज्ञः तथा उड़ीसादेशस्य मुख्यमन्त्री आसीत्।
१९९८ - लक्ष्मीकांतः - हिन्दीचलच्चित्रजगतः प्रसिद्धः संगीतकारः।
२००५ - सुनील दत्तः - हिन्दीचलच्चित्र-अभिनेता राजनीतिज्ञश्च।
२००५ - इस्माइल मर्चेंट - भारतीयचलच्चित्र-निर्माता निर्देशकश्च।
२०१० - तपन चट्टोपाध्यायः - बांग्ला-अभिनेता।
२०११ - रजनीकांत अरोलः - भारतीयः समाजसेवी आसीत्।
२०१२ - भगवत रावतः - प्रसिद्धः कविः निबंधकारश्च।
२०२० - बलबीर सिंहः - भारतस्य प्रसिद्धः हॉकी-क्रीडकः आसीत्।
महत्त्वपूर्ण अवसराः
विश्व थायराइड दिवसः।
-अफ्रीका दिवसः।
-अन्ताराष्ट्रिय गुमशुदा बाल दिवसः।
Hindusthan Samachar / Dheeraj Maithani