Enter your Email Address to subscribe to our newsletters

नवदेहली, २४ मे-मासः (हि.स.)। केन्द्रीय-शिक्षा-मन्त्री धर्मेन्द्र-प्रधानः सीबीएसई-परीक्षा-परिणामानन्तरं पुनर्मूल्याङ्कन-सेवाभिः सम्बद्धे पटल-मध्ये आगतानां तान्त्रिक-समस्यानां समाधानाय भारतीय-प्रौद्योगिकी-संस्थानयोः (आईआईटी) मद्रासनगरम् तथा आईआईटी कानपुरनगरम् इत्येतयोः विशेषज्ञ-समूहस्य नियुक्तिं कर्तुं निर्देशान् दत्तवान्।
केन्द्रीय-शिक्षा-मन्त्रालयस्य अनुसारं एषः निर्णयः छात्रैः अभिभावकैः च सीबीएसई-पोस्ट-परिणाम-सेवा-पटल-विषये प्रकटितानां चिन्तानां तथा तान्त्रिक-समस्यानां विषये प्राप्त-सूचनानां पश्चात् गृहीतः।
मन्त्रालयेन उक्तं यत् आईआईटी-संस्थाभ्यः आगताः आचार्या: तथा तकनीकी-विशेषज्ञाः अस्मिन् वर्षे पुनर्मूल्याङ्कन-सेवानां घोषणायाः अनन्तरं उत्पन्नानां सर्वासां तान्त्रिक-समस्यानां परीक्षणं करिष्यन्ति। एतत् दलं प्रणाली-तथा-तकनीकी-कार्यप्रवाहयोः सुधाराय आवश्यक-उपायान् अपि प्रस्तावयिष्यति।विशेषज्ञ-दलं पटलस्य स्थिरतां तथा सर्वर-प्रदर्शनं अपि समीक्षिष्यति। ततः परं समग्र-सूचना-प्रौद्योगिकी-नमूनाया: सुदृढीकरणं, लॉगिन-प्रमाणीकरण-प्रणाली, उपयोक्ता-प्रवेश-व्यवस्था तथा भुगतान-गेटवे-प्रणाल्याः शुद्धता इत्येषां परीक्षणं कृत्वा आवश्यक-सुधारात्मक-कार्याणि करिष्यति।
धर्मेन्द्र-प्रधानः उक्तवान् यत् छात्राणां हितं सर्वोपरि अस्ति, अतः सीबीएसई-संस्थया पारदर्शी, प्रभावी तथा छात्रहितैषी व्यवस्था सुनिश्चेतुं प्राथमिकतया सर्वे आवश्यक-सुधारात्मक-प्रयासाः कर्तव्याः।
/ अंशु गुप्ता