Enter your Email Address to subscribe to our newsletters

नवदेहली, २४ मे-मासः (हि.स.)। केन्द्रीय-शिक्षा-मन्त्री धर्मेन्द्र-प्रधानः सीबीएसई-संस्थायाः प्रदान-गेटवे-प्रणाल्यां व्यापक-सुधारं कर्तुं निर्देशान् दत्तवान्।
सः सीबीएसई-परीक्षा-परिणाम-प्रक्रियायाः तथा पुनर्मूल्याङ्कन-प्रक्रियायाः समये छात्रेभ्यः समुत्पन्नाः तान्त्रिक-भुगतानसम्बद्धाः समस्याः दृष्ट्वा केन्द्रीय-वित्त-तथा-कार्पोरेट-कार्य-मन्त्रिणा निर्मला-सीतारमण:-इत्यनया सह चर्चां कृतवान्। ततः परं सीबीएसई-प्रदान-प्रणाल्याः सुदृढीकरणाय चत्वारः सार्वजनिक-क्षेत्र-धनागारा: सहायतां करिष्यन्ति इति निर्णयः कृतः।
केन्द्रीय-शिक्षा-मन्त्रालयस्य अनुसारं भारतीय-स्टेट-बैङ्क, बैंक-ऑफ-बड़ौदा, केनरा-बैङ्कः तथा इंडियन-बैङ्क सीबीएसई-संस्थायाः पोस्ट-एग्जामिनेशन-सेवा-पटलेन सह भुगतान-गेटवे-प्रणाल्याः सुदृढीकरणे तथा आवश्यक-तान्त्रिक-एकीकरणे सहयोगं करिष्यन्ति।
एते धनागारा: सीबीएसई-संस्थायै सुदृढ-भुगतान-प्रोटोकॉल-निर्माणे सहायतां करिष्यन्ति, येन समये एव प्रदान-प्रक्रिया सुनिश्चिता भवेत्। तथा च प्रदान-सम्बद्धाः त्रुटयः दूरीकृताः भविष्यन्ति, अधिक-भुगतान-स्थितौ स्वतः धन-प्रत्यावर्तन-व्यवस्था अपि विकसितुं शक्यते।
मन्त्रालयस्य अनुसारं वित्त-मन्त्रालयस्य तथा सार्वजनिक-क्षेत्र-बैङ्कानां समन्वित-प्रयासैः डिजिटल-लेनदेनं सुकरं भविष्यति, भुगतान-प्रणाल्याः स्थिरता वर्धिष्यते, तथा पुनर्मूल्याङ्कनादि-सेवानां लाभं प्राप्नुवतां छात्राणां अनुभवः अधिक-सुगमः भविष्यति।
Hindusthan Samachar / Divya Ranjan