Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 24 मईमासः (हि. स.)।सिलीगुड़ीनगरस्य भाजपाविधायकस्य शङ्करघोषस्य पहलया रविवासरे बाघाजतीनेत्यस्मिन्उद्याने “सीधे शङ्कर” इति कार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे सिलीगुडीव्यतिरिक्तं मालदा, कूचबिहार, कोलकाता इत्यादिभ्यः अनेकजिलेभ्यः बहुसंख्यकाः जनाः उपस्थिताः अभवन्।
कार्यक्रमकाले जनैः स्वीयाः व्यक्तिगतसमस्याः, भूम्यधिक्रमणम्, नियुक्तौ भ्रष्टाचारः इत्यादयः अनेकाः गम्भीरविषयाः विधायकस्य समक्षे प्रस्तुताः। विधायकः शङ्करघोषः सर्वाः शिकायताः सावधानतया अशृणोत् तथा जनान् आश्वासितवान् यत् तेषां समस्याः मुख्यमन्त्रिणः तथा सम्बद्धविभागानां समीपं प्रेषिताः भविष्यन्ति।
तेन उक्तं यत् सामान्यजनानां समस्यासमाधानार्थं सर्वे सम्भवप्रयत्नाः करिष्यन्ते।
विधायकः एतदपि अवदत् यत् अस्मात्पूर्वम् अपि “सीधे शङ्कर” कार्यक्रमस्य आयोजनं कृतम् आसीत्, भविष्ये च सिलीगुडीनगरस्य विभिन्नेषु क्षेत्रेषु एषा पहल निरन्तरं प्रवर्तिष्यते। तेन घोषणा कृता यत् सिलीगुडीनगरनिगमे अपि बरो (वार्ड) स्तरस्य कार्यक्रमस्य आयोजनं भविष्यति, येन अधिकाधिकजनान् सम्प्राप्य तेषां समस्याः समाधातुं शक्येत।
Hindusthan Samachar / Dheeraj Maithani