Enter your Email Address to subscribe to our newsletters

बहराइचजनपदः, 24 मईमासः (हि.स.)। महाराष्ट्रस्य नागपुरे आयोजिते द्वि-दिवसीय-चिन्तन-सम्मान-कार्यक्रमे बहराइच-निवासी-पर्यावरण-पत्रकारः विवेकः मिश्रः जल-संरक्षणस्य, नदीनां, पर्यावरणीय-संकटानाञ्च विषये तस्य गम्भीरायाः जागरूकायाश्च लेखन्याः कृते सम्मानितः। कार्यक्रमे केन्द्रीय-मार्ग-परिवहन-राजमार्ग-मन्त्री नितिनः गडकरी, प्रसिद्धः अभिनेता नाना-पाटेकरः, देशस्य सर्वत्रतः आगतानां जल-पर्यावरण-समाजस्य क्षेत्रे कार्यरतानाम् अनेकेषां विशेषज्ञानां गणमान्यानाञ्च उपस्थितिः आसीत्।
कार्यक्रमस्य काले आयोजिते जलसंवाद सत्रे जलपर्व-पुस्तकस्य विमोचनमपि कृतम्। एतत् पुस्तकम् देशस्य प्रसिद्धानां पर्यावरणविदाम्, शोधकर्तॄणां, जल-क्षेत्रे कार्यरतानां च विशेषज्ञानां लेखानां विचाराणाञ्च महत्त्वपूर्णं संकलनम् अस्ति, यस्यां विवेकमिश्रस्य लेखोऽपि प्रकाशितः अस्ति। नागपुरे आयोजिते अस्मिन् कार्यक्रमे मिश्रेण सह जल-पर्यावरणस्य क्षेत्रे उल्लेखनीयं कार्यं कुर्वताम् अनेकेषां प्रमुखाणां जनानाम् अपि सम्मानः कृतः। तेषु चित्रकूटस्य पद्मश्री-सम्मानितः उमाशङ्करः पाण्डेयः, उत्तराखण्डस्य पर्यावरणविद् अनिलः जोशी, पश्चिम-उत्तरप्रदेशस्य पद्मश्री-कृषकः सेठपालः सिंहः, भारतीय-प्रौद्योगिकी-संस्थान-दिल्लीसम्बद्धाः विशेषज्ञाः, तेन सह जल-क्षेत्रस्य प्रायः चत्वारिंशत् प्रख्याताः गणमान्याः जनाः च सम्मिलिताः आसन्।
मूलतः बहराइचजनपदस्य निवासी विवेकः मिश्रः दीर्घकालतः देशस्य गम्भीरेषु पर्यावरणीय-विषयेषु सक्रियां पत्रकारितां शोध-कार्यञ्च करोति। कोविड-१९-महामार्याः काले, स्वकीयस्य प्राणस्य चिन्तां विना तेन कोरोनायाः प्रथमायां तरङ्गे सामाजिक-पर्यावरणीय-संकटस्य विषयान् प्राथमिकतां दत्त्वा दिल्लीतः उत्तरप्रदेशस्य श्रावस्तीपर्यन्तं प्रवासी-श्रमिकैः सह प्रायः अष्ट-शत-किलोमीटरमितस्य पदयात्रा कृता। कठिनेषु परिस्थितिषु तेन निरन्तरं वीडियो-मूलस्तरीय-दस्तावेजीकरणे च कृते, प्रसिद्धायाश्च पर्यावरणविदः सुनीतायाः नारायणस्य सह विकासस्य दुष्परिणामान् प्रवासी-श्रमिकाणां च पीड़ां समग्रे देशे प्राप्नुयात् । पश्चात् एषः अनुभवः अध्ययनञ्च अफ्रीकायाः एकस्यां प्रमुखायां विज्ञान-सम्मेलने अपि श्रुतं सराहितञ्च अभवत्।
विवेकः मिश्रः अकथयत् यत् विगतेभ्यः प्रायः अष्टभ्यः वर्षेभ्यः सेण्टर-फॉर-साइंस-एण्ड-एनवायरनमेण्ट् इत्यनेन सह संयुक्तः अस्ति। तस्य लेखनी निरन्तरं डाउन-टू-अर्थ इत्यत्र प्रकाशिता भवति, यत्र सः जल-संकटस्य, नदीनाम्, प्रदूषणस्य, जलवायु-परिवर्तनस्य, पर्यावरणीय-न्यायस्य, विकासस्य च दुष्प्रभावानां सदृशेषु विषयेषु गहनां रिपोर्टिंगं विश्लेषणञ्च करोति।
---------------------
Hindusthan Samachar / अंशु गुप्ता