उत्साहेन सह समाचरितस्य एनटीपीसी कहलग्रामस्य 42तमः स्थापना दिवसः
भागलपुरम्, 24 मईमासः (हि.स.)।एनटीपीसी कहलग्रामे स्वस्य द्विचत्वारिंशततमस्य स्थापना दिवसस्य उपलक्ष्ये भव्यसमारोहम् आयोज्य गौरवशालिनीनाम् उपलब्धीनाम् प्रेरणादायकस्य भविष्यस्य च दिशि स्वसंकल्पं पुनः दृढीकृतवती। मुख्यसमारोहस्य शुभारम्भः एनटीपीसी कहलग्
कार्यक्रम में शामिल लोग


संबोधित करते परियोजना प्रमुख


भागलपुरम्, 24 मईमासः (हि.स.)।एनटीपीसी कहलग्रामे स्वस्य द्विचत्वारिंशततमस्य स्थापना दिवसस्य उपलक्ष्ये भव्यसमारोहम् आयोज्य गौरवशालिनीनाम् उपलब्धीनाम् प्रेरणादायकस्य भविष्यस्य च दिशि स्वसंकल्पं पुनः दृढीकृतवती।

मुख्यसमारोहस्य शुभारम्भः एनटीपीसी कहलग्रामस्य परियोजनाप्रमुखेन रविन्द्र पटेल महोदयेन ध्वजारोहणेन सह अभवत्। अस्मिन् अवसरे मनोरञ्जन परिदा, महाप्रबन्धकः, प्रचालनम् अनुरक्षणं च, श्रीनाध मारीशेट्टी, महाप्रबन्धकः, अनुरक्षणम् एडीएम च, भारती नन्दन, निर्देशकः, सीआईएसएफ, सर्वे विभागाध्यक्षाः, यूनियन एवं एसोसिएशन प्रतिनिधयः तथा कर्मिणः बहुसंख्यया उपस्थिताः आसन्। ध्वजारोहणानन्तरं एनटीपीसी नैगमगीतम् अगायत, येन वातावरणं राष्ट्रनिर्माणभावनया ओतप्रोतं जातम्।

रविन्द्र पटेलः सर्वान् सम्बोधयन् उक्तवान् यत् अद्य द्विचत्वारिंशद्वर्षाणां निरन्तरपरिश्रमस्य, प्रतिबद्धतायाः तथा नवाचारस्य बलात् एनटीपीसी कहलग्रामः न केवलं विद्युतोत्पादने अग्रणी जातः, अपितु राज्यस्य राष्ट्रस्य च ऊर्जामानचित्रे स्वस्य विशिष्टां परिचितिम् अपि स्थापितवान्। तेन केन्द्रस्य प्रमुखोपलब्धीनां उल्लेखं कुर्वता उक्तं यत् प्रचालनम्, अनुरक्षणम् तथा मानवसंसाधनविकासादिषु क्षेत्रेषु एनटीपीसी कहलग्रामेण अनुकरणीयं प्रदर्शनं कृतम् अस्ति। सहैव सामाजिकदायित्वनिर्वहणे अपि संस्था निरन्तरं सक्रियां भूमिकां निर्वहति।

स्थापनादिवसस्य उपलक्ष्ये दीप्तिनगरस्थितं मुख्यभवनम्, प्रवेशद्वाराणि तथा प्लाण्टपरिसरः पुष्पैः तथा नानावर्णविद्युत्सज्जया आकर्षकरूपेण अलङ्कृताः आसन्। अस्मिन् अवसरे केकच्छेदनम् अभवत् तथा गुब्बाराणि अपि विमोचितानि, येन स्थापना दिवसोत्सवः हर्षोल्लासेन सह आचरितः तथा सम्पूर्णे परिसरे उत्सवमयः वातावरणः अधिकं प्रफुल्लितः अभवत्।

कार्यक्रमस्य समापनं एतेन संकल्पेन सह अभवत् यत् एनटीपीसी कहलग्रामः भविष्ये अपि ऊर्जा, उत्कृष्टता तथा नवाचारस्य नूतनमानदण्डान् स्थापयिष्यति। ततः परं स्वच्छतापक्षस्य अन्तर्गतं परियोजनाप्रमुखः रविन्द्र पटेल महोदयः अभिनवकर्मचारीविकासकेन्द्रे, कहलग्रामे, पीएमआईएस अभ्यर्थिभिः तथा कार्यपालकप्रशिक्षकैः सह संवादं कृतवान् तथा तान् स्वच्छतायाः पर्यावरणसंरक्षणस्य च शपथं कारितवान्। तेन सह स्वच्छताभियानस्य अपि आयोजनम् अभवत्, यस्मिन् सर्वे उपस्थिताः अधिकारिणः कर्मिणश्च उत्साहपूर्वकं सहभागितां कृतवन्तः।

Hindusthan Samachar / Dheeraj Maithani