साबरमती-रिवरफ्रण्टे स्वास्थ्य-तथा-क्रीडा-संस्कृतेः उत्सवः, सहस्रशः जनाः अभागं गृहीतवन्तः
अहमदाबादः, २४ मे-मासः (हि.स.)। ‘फिट् इण्डिया सण्डे ऑन साइकिल्’ इत्यस्य ७५तम-संस्करणे रविवासरे देशस्य ८,००० अधिकेषु स्थानेषु जनानां विशालः सहभागः दृष्टः। गुजरात-राज्यस्य अहमदाबाद-नगरे साबरमती-रिवरफ्रण्टे आयोजिते मुख्यकार्यक्रमे केन्द्रीय-युवा-कार्य-
आयुष्मान खुराना


अहमदाबादः, २४ मे-मासः (हि.स.)। ‘फिट् इण्डिया सण्डे ऑन साइकिल्’ इत्यस्य ७५तम-संस्करणे रविवासरे देशस्य ८,००० अधिकेषु स्थानेषु जनानां विशालः सहभागः दृष्टः। गुजरात-राज्यस्य अहमदाबाद-नगरे साबरमती-रिवरफ्रण्टे आयोजिते मुख्यकार्यक्रमे केन्द्रीय-युवा-कार्य-तथा-क्रीडा-मन्त्री डॉ. मनसुख-माण्डविया, गुजरातस्य उपमुख्यमन्त्री हर्ष-संघवी तथा चलचित्र-अभिनेता आयुष्मान्-खुराना इत्येतैः सह सहस्रशः साइकिल-चालकाः तथा स्वास्थ्य-जागरूकाः जनाः सहभागिनः अभवन्।

अहमदाबाद-नगरे योग-तथा-जुम्बा-प्रदर्शनैः सह ५-किलोमीटर-दीर्घा साइकिल-रैली आयोजिता, या साबरमती-रिवरफ्रण्टं स्वास्थ्य, संस्कृति तथा भारतस्य क्रीडा-विकासस्य उत्सवे परिणतवती। अस्य कार्यक्रमस्य प्रमुख-आकर्षणेषु एकम् आसीत् डॉ. माण्डविया-इत्यनेन उद्घाटिता विशेषा राष्ट्रमण्डल-क्रीडा-विषयक-प्रदर्शिनी, यस्याम् भारतस्य क्रीडा-उपलब्धयः, ‘खेलो इण्डिया मिशन्’ अन्तर्गतं विकसितं क्रीडा-आधारभूत-संरचनाजालं तथा २०३०-तमे वर्षे राष्ट्रमण्डल-क्रीडानां आयोजनस्य पूर्वतया विस्तरन् भारतीयं क्रीडा-परितन्त्रं प्रदर्शितम्।

कार्यक्रमे पिकलबॉल्, बॉक्स्-क्रिकेट्, वॉलीबॉल्, रस्साकर्षणम् इत्यादीनां विविध-आकर्षक-क्रियाकलापानाम् अपि आयोजनम् अभवत्, येन सर्वेषां आयुवर्गाणां प्रतिभागिनां कृते उत्सव-सदृशं वातावरणं निर्मितम्। अन्यच्च, प्रसिद्ध-कलाकारः अनीश-रंगरेजः गरबा-नृत्यस्य पारम्परिक-भावनां योग-विज्ञानेन सह संयोजयन् अद्वितीयं प्रदर्शनम् प्रस्तुतवान्। मोरारजी-देसाई-राष्ट्रीय-योग-संस्थानस्य डॉ.पवन-कुमारः अपि स्वास्थ्य-परामर्श-तथा-मार्गदर्शन-सत्रैः प्रतिभागिभिः सह संवादं कृतवान्, येन समग्र-स्वास्थ्यं तथा स्वस्थ-जीवन-शैली प्रोत्साहिता।

अस्मिन् अवसरे डॉ.माण्डविया उक्तवान् यत् अद्य विशेषः अवसरः अस्ति, यतः वयं ‘फिट् इण्डिया सण्डे ऑन साइकिल्’ इत्यस्य ७५तम-संस्करणं तथा राष्ट्रमण्डल-क्रीडा-दिवसम् अपि उत्सवरूपेण आचरामः। मम गर्वः अस्ति यत् गुजरातप्रदेश: २०३०-तमे वर्षे राष्ट्रमण्डल-क्रीडानां आयोजनं करिष्यति, तथा प्रातःकाले स्वास्थ्य-तथा-राष्ट्रनिर्माणाय सहस्रशः जनानां एकत्रीकरणं दृष्ट्वा अधिका प्रसन्नता अनुभूयते।

सः अवदत् यत् यदि वयं प्रधानमन्त्री नरेन्द्र-मोदी इत्यस्य ‘विकसित-भारत’ दृष्टिकोणं साकारयितुम् इच्छामः, तर्हि प्रत्येकेन नागरिकेन स्वास्थ्यं तथा स्वस्थ-जीवनशैली प्राथमिकतया स्वीकरणीया। साइकिल-चालनं केवलं व्यायामः न, अपितु जनान्दोलनम् अस्ति। एतत् अस्मान् स्वस्थं करोति, प्रदूषणं न्यूनीकरोति तथा इन्धन-संरक्षणे साहाय्यं करोति। एतत् प्रधानमन्त्रिणः इन्धनस्य न्यून-उपभोगाय कृतस्य आह्वानस्य अनुरूपम् अपि अस्ति।

गुजरातस्य उपमुख्यमन्त्री हर्ष-संघवी उक्तवान् यत् अद्य सम्पूर्णम् अहमदाबाद-नगरं ‘फिट् इण्डिया सण्डे ऑन साइकिल्’ कार्यक्रमेण सजीवम् अभवत्। गुजरातस्य जनैः प्रदर्शितं प्रबलं समर्थनं दृष्ट्वा मम अत्यन्तं हर्षः जायते। सहस्रशः नागरिकाः प्रातःकाले स्वास्थ्य-तथा-क्रीडायै बहिः आगतवन्तः, यत् स्वस्थ-जीवनं प्रति वर्धमानां जागरूकतां उत्साहं च प्रदर्शयति।

अभिनेता तथा ‘फिट् इण्डिया’-प्रतीकः आयुष्मान्-खुराना उक्तवान् यत् अद्य अत्र सर्वेषां आयुवर्गाणां जनान् उत्साहेन सहभागं कुर्वन्तः दृष्ट्वा अहं वास्तवमेव आनन्दितः अस्मि। ‘फिट् इण्डिया’ अभियानस्य तथा आगामि-राष्ट्रमण्डल-क्रीडा-२०३० इत्यस्य मध्ये सहयोगः अत्यन्तं सुन्दरः अस्ति, यतः एषः भारतीय-युवसु क्रीडा-संस्कृतिं प्रेरयति। सः अवदत् यत् ‘सण्डे ऑन साइकिल्’ इति अत्यन्तं रोचकः तथा भविष्य-दृष्ट्या महत्त्वपूर्णः उपक्रमः अस्ति।

Hindusthan Samachar / Divya Ranjan