Enter your Email Address to subscribe to our newsletters

-उदय कुमार सिंहः
भारतीयस्य सनातनसंस्कृतेः मध्ये गङ्गादशहरापर्व अत्यन्तं पवित्रं, आध्यात्मिकं तथा पुण्यदायकं मन्यते। एतत् पर्व प्रतिवर्षं ज्येष्ठमासस्य शुक्लपक्षस्य दशमीतिथौ श्रद्धया भक्त्या च सह आचर्यते। वर्षे २०२६ तमे गङ्गादशहरायाः पावनपर्व मेमासीये25 दिनांके, सोमवासरे आयोज्यते। धार्मिकमान्यतानुसारम् अस्मिन्नेव दिने मातुः गङ्गायाः स्वर्गलोकात् पृथिव्यां अवतरणम् अभवत्। अत एव अस्मिन् दिने गङ्गास्नानस्य, दानपुण्यस्य, जपस्य, तपसः तथा पूजार्चनायाः विशेषमहत्त्वं मन्यते।
भारतीयसंस्कृतौ गङ्गा केवलं नदी नास्ति, अपितु कोटिशः जनानां श्रद्धाया, भक्तेः तथा जीवनस्य आधारः अस्ति। सनातनधर्मे गङ्गा “माता गङ्गा”, “मोक्षदायिनी” तथा “पापनाशिनी” इति कथ्यते। मान्यता अस्ति यत् गङ्गाजले स्नानेन मनुष्यस्य समस्तपापानि नश्यन्ति तथा तस्मै मोक्षस्य प्राप्तिः भवति। अत एव गङ्गादशहरायाः अवसरॆ देशस्य सर्वेषु गङ्गाघाटेषु श्रद्धालूनां विशालः जनसमूहः दृश्यते।
गङ्गादशहरा : तिथि तथा शुभमुहूर्तः• गङ्गादशहरा : २५ मे २०२६, सोमवासरः• दशमीतिथेः प्रारम्भः : २५ मे २०२६ प्रातः ०४:३० वादने• दशमीतिथेः समाप्तिः : २६ मे २०२६ प्रातः ०५:१० वादने
ज्योतिषीयमान्यतानुसारम् अस्मिन् वर्षे ज्येष्ठमासे अधिकमासस्य विशेषसंयोगः निर्मीयते। तस्मात् गङ्गास्नानस्य, दानपुण्यस्य तथा पूजापाठस्य महत्त्वं बहुगुणं वर्धते। धार्मिकविद्वद्भिः उक्तं यत् अस्मिन् दिने कृतानां पुण्यकर्मणां फलम् अत्यन्तं शुभं कल्याणकरं च मन्यते।
कुतः ‘गङ्गादशहरा’ इति कथ्यते‘गङ्गादशहरा’ इति शब्दः द्वाभ्यां शब्दाभ्यां निर्मितः अस्ति — ‘दश’ अर्थात् दश तथा ‘हरा’ अर्थात् नाशः। धार्मिकमान्यतानुसारम् अस्मिन् दिने गङ्गास्नानेन मनुष्यस्य दशविधानां पापानां नाशः भवति। शास्त्रेषु एतानि पापानि त्रिषु प्रकारेषु विभक्तानि सन्ति —• ३ कायिकपापानि — शरीरेण कृतानि पापानि• ४ वाचिकपापानि — वाचा कृतानि पापानि• ३ मानसिकपापानि — मनसा तथा विचारैः कृतानि पापानि
अतः अस्मिन् दिने गङ्गास्नानस्य, ध्यानस्य, जपस्य, तपसः तथा दानस्य विशेषमहत्त्वं मन्यते। कथ्यते यत् गङ्गादशहरायां श्रद्धया मातुः गङ्गायाः पूजां कृत्वा मनुष्यस्य जीवनस्य दुःखानि, क्लेशाः तथा नकारात्मकता दूरं भवन्ति।
मातुः गङ्गायाः अवतरणस्य पौराणिकी कथापौराणिककथानुसारं राजा सगरस्य षष्टिसहस्रं पुत्राः कपिलमुनॆः शापेन भस्मीकृताः अभवन्। तेषाम् उद्धारार्थं तथा आत्मनः शान्त्यर्थं राजा भागीरथेन वर्षाणि यावत् कठोरतपस्या कृता। तस्य कठिनसाधनया प्रसन्नः भूत्वा ब्रह्मा मातरं गङ्गां पृथिव्यां आगन्तुं वरं दत्तवान्। किन्तु मातुः गङ्गायाः वेगः इत्थं प्रचण्डः आसीत् यत् पृथिवी तस्य प्रवाहं सोढुं न शक्तवती। तदा भगवान् शिवः पृथिव्याः रक्षणार्थं मातरं गङ्गां स्वजटासु धारितवान् तथा तस्याः वेगं नियन्त्रितवान्। ततः अनन्तरं माता गङ्गा शान्तरूपेण पृथिव्यां अवतीर्णा अभवत् तथा राजा भागीरथस्य पूर्वजानाम् उद्धारं कृतवती। अत एव गङ्गा ‘भागीरथी’ इति नाम्ना अपि ज्ञायते।
राज्ञः भागीरथस्य कठोरतपस्या तथा गङ्गावतरणस्य एषा कथा भारतीयसंस्कृतौ तपसः, त्यागस्य तथा लोककल्याणस्य प्रतीकं मन्यते। एषा कथा अस्मान् शिक्षयति यत् सत्यया निष्ठया, धैर्येण तथा तपस्या असम्भवकार्याणि अपि सम्भवानि भवन्ति।
भारतीयसंस्कृतौ श्रद्धायां च गङ्गायाः स्थानम्भारतीयसनातनसंस्कृतौ गङ्गा केवलं जलधारा नास्ति, अपितु आध्यात्मिकचेतनायाः तथा जीवनशक्तेः प्रतीकं अस्ति। ऋषिमुनिभ्यः आरभ्य सामान्यजनपर्यन्तं सर्वे जनाः गङ्गां मातृरूपेण पूजयन्ति। गङ्गातटेषु शताब्दिभ्यः सभ्यतायाः, संस्कृतेः, धर्मस्य तथा ज्ञानस्य विकासः अभवत्।
गङ्गा मनुष्यस्य जीवनस्य, संस्काराणां तथा श्रद्धायाः सह गभीरतया सम्बद्धा अस्ति। जन्मात् आरभ्य मृत्युपर्यन्तं हिन्दुधर्मस्य अधिकांशसंस्कारेषु गङ्गाजलस्य विशेषमहत्त्वं भवति। मान्यता अस्ति यत् गङ्गाजलम् अमृतसमानं पवित्रं भवति तथा तस्य एकापि बिन्दुः आत्मानं शुद्धीकर्तुं समर्था अस्ति।
धार्मिकमान्यता एषा अपि अस्ति यत् गङ्गास्नानेन मनुष्यस्य पापानां संतापानां च नाशः भवति तथा तस्मै मानसिकशान्तिः आध्यात्मिकशक्तिः च प्राप्यते। अतः गङ्गादशहरायां श्रद्धालवः गङ्गातटेषु स्नानं कृत्वा मातुः गङ्गायाः पूजनं कुर्वन्ति।
गङ्गादशहरायां किं करणीयम्गङ्गादशहरायां प्रातःकाले ब्रह्ममुहूर्ते उत्थाय स्नानं करणं शुभं मन्यते। यदि सम्भवम् अस्ति तर्हि गङ्गानद्यां स्नानं कुर्यात्, अन्यथा गृहे स्नानजले गङ्गाजलं मिश्रयित्वा स्नानं कर्तुं शक्यते। ततः अनन्तरं मातुः गङ्गायाः पूजां कृत्वा दीपं, धूपं, पुष्पाणि, दुग्धं तथा अक्षतान् अर्पयन्ति।
अस्मिन् दिने दानपुण्यस्य विशेषमहत्त्वं कथितम् अस्ति। श्रद्धालवः आवश्यकतायुक्तेभ्यः जनाभ्यः अन्नं, वस्त्राणि, जलं, फलानि, छत्रं, सत्तू तथा शीतलपेयस्य दानं कुर्वन्ति। एतदतिरिक्तं गङ्गास्तोत्रस्य, गङ्गाचालीसायाः तथा मन्त्राणां जापः अपि अत्यन्तं फलदायकः मन्यते।
धार्मिकपरम्परानुसारम् अस्मिन् दिने पीपलवृक्षस्य, तुलस्याः तथा अन्येषां पवित्रवृक्षाणां पूजनम् अपि शुभं मन्यते। बहवः श्रद्धालवः गङ्गातटे दीपदानं कृत्वा मातरं गङ्गां सुखस्य, समृद्धेः तथा परिवारस्य मङ्गलकामनां याचन्ते।
गङ्गादशहरायाः आध्यात्मिकः सामाजिकः च सन्देशःगङ्गादशहरा केवलं धार्मिकपर्व नास्ति, अपितु मानवजीवनाय शुद्धतायाः, सेवायाः, करुणायाः तथा सदाचारस्य सन्देशं ददाति। माता गङ्गा अस्मान् प्रेरयति यत् जीवने निरन्तरप्रवाहः, पवित्रता तथा परोपकारभावना स्थिरा भवेत्।
अद्यतनकाले गङ्गा केवलं श्रद्धायाः विषयः नास्ति, अपितु पर्यावरणस्य तथा जीवनसंरक्षणस्य आधारः अपि अस्ति। गङ्गायाः तथा अन्यनदीनां स्वच्छता रक्षितुं प्रत्येकस्य नागरिकस्य उत्तरदायित्वम् अस्ति। गङ्गादशहरापर्व अस्मभ्यं एतत् सन्देशम् अपि ददाति यत् यस्याः नद्याः वयं मातृस्थानं दद्मः, तस्याः स्वच्छता तथा पवित्रता रक्षितुं अस्माकं कर्तव्यं भवति।
धार्मिकमान्यता अस्ति यत् गङ्गादशहरायां श्रद्धया व्रतं, स्नानं तथा पूजां कृत्वा मनुष्यस्य सर्वे मनोरथाः पूर्णाः भवन्ति। मातुः गङ्गायाः कृपया अष्टसिद्धीनां नवनीधीनां च प्राप्तिः भवति तथा जीवने सुखं, शान्तिः तथा समृद्धिः आगच्छति। अत एव कोटिशः श्रद्धालूनां कृते एतत् पर्व श्रद्धायाः, भक्तेः तथा आत्मिकशुद्धेः महापर्व मन्यते।------------
Hindusthan Samachar / Dheeraj Maithani