Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ मे-मासः (हि.स.)। विदेशमन्त्री एस.जयशङ्करः अमेरिकी-विदेशमन्त्रिणा मार्को-रुबियो इत्यनेन सह संयुक्त-प्रेस-वार्तायां उक्तवान् यत् भारतदेश: संघर्षस्य अपेक्षया संवादस्य कूटनीतेश्च समर्थकः अस्ति। तेन सुरक्षित-सामुद्रिक-वाणिज्यं, ऊर्जा-सुरक्षा, विश्वसनीय-आपूर्ति-शृङ्खला तथा वैश्विक-आर्थिक-स्थैर्यस्य महत्त्वं प्रतिपादितम्। उभयदेशयोः मध्ये व्यापार-परमाणुसहयोग-कृत्रिमबुद्धिमत्ता तथा प्रौद्योगिकी-क्षेत्रेषु सहकार-वृद्धेः विषये चर्चा अभवत्।
मार्को-रुबियो उक्तवान् यत् भारतदेश: अमेरिकायाः महत्त्वपूर्णः रणनैतिक-सहभागी अस्ति तथा उभौ देशौ वैश्विक-समस्यानां समाधानाय सहकार्यं कुर्वन्ति। तेन ईरान-विषये सकारात्मक-प्रगतेः संकेताः दत्ताः तथा होर्मुज-जलडमरूमध्यस्य सुरक्षायाः महत्त्वं प्रतिपादितम्।
दिल्ली-नगरे अमेरिकी-विदेशमन्त्री उक्तवान् यत् होर्मुज-जलडमरूमध्यस्य तथा ईरान-विषयस्य सम्बन्धे शीघ्रमेव किञ्चित् शुभ-सूचनां प्राप्तुं शक्यते। खाड़ी-क्षेत्रस्य सहभाग-देशैः सह गत-४८-होरासु सकारात्मक-प्रगतिः अभवत्। ईरान-विषये महत्त्वपूर्णा प्रगतिः जाता, यद्यपि अन्तिम-समाधानम् अद्यापि अवशिष्टम् अस्ति। अमेरिकायाः उद्देश्यं यत् ईरानः कदापि परमाणु-आयुधं न प्राप्नुयात्। होर्मुज-जलडमरूमध्यं अन्तरराष्ट्रीय-जलमार्गरूपेण वर्णयन् अमेरिकी-विदेशमन्त्री व्यावसायिक-नौकानां प्रति धमकीं अन्तरराष्ट्रीय-नियम-विरुद्धम् इति उक्तवान्।
रुबियो उक्तवान् यत् जे-१, एफ्-१ तथा एच्-१बी वीजा-नियमेषु परिवर्तनानि केवलं भारत-विशेषाणि न सन्ति, अपितु वैश्विक-स्तरे प्रवर्तमान-सुधार-प्रक्रियायाः भागा: सन्ति। तेन भारतीय-संस्थानां अमेरिकी-अर्थव्यवस्थायां २०-अर्ब-डॉलराधिक-निवेशस्य प्रशंसा कृता। रुबियो उक्तवान् यत् अमेरिका स्वस्य आप्रवासन-प्रणालीं आधुनिकां अधिक-स्थायिनीं च कर्तुं प्रयतते। तेन स्वीकृतं यत् परिवर्तनस्य अस्मिन् काले कतिपयानि अस्थायी-कठिनतानि व्यवधानानि च सम्भवन्ति।
Hindusthan Samachar / Divya Ranjan