Enter your Email Address to subscribe to our newsletters



बेङ्गलूरुनगरम्, २४ मे-मासः (हि.स.)। भारतीय-जनता-पक्षस्य राष्ट्रीय-अध्यक्षत्वं स्वीकृत्य प्रथमवारं कर्नाटक-राज्यम् आगतस्य नितिन-नवीनस्य राज्य-भाजपा-नेतृभिः कार्यकर्तृभिश्च भव्यं स्वागतं कृतम्। शनिवासरे रात्रौ विलम्बेन बेङ्गलूरु-नगरम् आगते तस्मिन् भाजपा-प्रदेशाध्यक्षः बी.वाई. विजयेंद्रः तस्य स्वागतं कृतवान्। विमानस्थानकात् आरभ्य दल-कार्यालयं यावत् कार्यकर्तृषु उत्साहपूर्णं वातावरणं दृष्टम्।
रविवासरे प्रातःकाले नितिन-नवीनः पूर्व-मुख्यमन्त्रिणः बी.एस.येदियुरप्पा-इत्यस्य आमन्त्रणेन तस्य निवासं गत्वा प्रातराश-सभायां सहभागितां कृतवान्। प्रायः एक-घण्टापर्यन्तं प्रवृत्ते अस्मिन् साक्षात्कारे राज्ये भाजपा-संघटनस्य अधिकं सुदृढीकरणम्, आगामि-राजनीतिक-कार्यक्रमाः तथा निर्वाचन-तयारी-विषये अनौपचारिकी चर्चा अभवत्। दल-सूत्राणां अनुसारम्, सभायां मतदान-केन्द्र-स्तरपर्यन्तं संघटनस्य सक्रियतावर्धनाय तथा कार्यकर्तॄणां मध्ये समन्वयस्य सुदृढीकरणाय अपि विचार-विमर्शः कृतः।
अस्य पूर्वम् अद्य नितिन-नवीनः बेङ्गलूरु-नगरस्य प्रसिद्धे काडु-मल्लेश्वर-मन्दिरे विशेष-पूजा-अर्चनां कृतवान् तथा राज्यस्य समृद्धये भाजपा-संघटनस्य सफलतायै च प्रार्थनाम् अकरोत्। मन्दिरे दर्शन-काले स्थानीय-नेतारः श्रद्धालवश्च तस्य स्वागतं कृतवन्तः।
तदनन्तरं भाजपा-प्रदेश-कार्यालये नितिन-नवीनस्य अध्यक्षतायां अनेकाः महत्त्वपूर्णाः सभाः आयोजिताः। एतासु सभासु दलस्य वर्तमान-पूर्व-विधायकाः, सांसदाः, विधान-परिषद्-सदस्याः तथा विविध-पदाधिकारीणः सहभागिन: अभवन्। पृथक्-पृथक् सत्रेषु नेतृभ्यः संघटनस्य स्थितिः, जनसम्पर्क-अभियानम् तथा आगामि-राजनीतिक-आह्वानानां विषये अभिप्रायाः गृहीताः।
सायंकाले भविष्यन्त्याः भाजपा-राज्य-कोर-समितेः सभायाः राजनैतिक-दृष्ट्या अत्यन्तं महत्त्वं मन्यते। अस्यां सभायां राज्यस्य वर्तमान-राजनीतिक-परिस्थितयः, संघटन-विस्तारः, आगामि-निर्वाचनानां रणनीतिः, युवा-महिला-मोर्चयोः सक्रियता तथा कार्यकर्तॄणां समन्वयः इत्यादिषु विषयेषु विस्तरेण चर्चा भविष्यतीति सम्भावना अस्ति। मन्यते यत् दल-नेतृत्वम् आगामि-निर्वाचनान् दृष्ट्वा संघटनात्मक-संरचनायाः अधिक-सुदृढीकरणस्य सज्जां करोति।
स्वस्य कर्नाटकप्रवासस्य विषये नितिन-नवीनः सामाजिक-माध्यम-मञ्चे ‘एक्स्’ इत्यत्र अपि सन्देशं प्रसारितवान्। तेन उक्तं यत् बी.एस. येदियुरप्पा कर्नाटक-राज्ये भाजपा-विस्तारे संघटनस्य सुदृढीकरणे च अमूल्यं योगदानं दत्तवान्। तेन सार्वजनिक-जीवने येदियुरप्पस्य पञ्चाशत्-वर्षीय-दीर्घ-सेवायाः, जनकल्याण-प्रतिबद्धतायाः तथा राजनीतिक-अनुभवस्य प्रशंसा कृता तथा तस्मै शुभकामनाः प्रदत्ताः।
भाजपा-नेतारः अपि मन्यन्ते यत् नितिन-नवीनस्य अयं कर्नाटकप्रवास: राज्य-संघटने नूतन-ऊर्जां सञ्चारयितुं तथा अग्रिम-निर्वाचन-सज्जानां गतिवर्धने महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
Hindusthan Samachar / Divya Ranjan