Enter your Email Address to subscribe to our newsletters

धर्मशाला, 24 मईमासः (हि.स.)।
खेलनगर्यां धर्मशालायां रविवासरे फिट इण्डियासक्रियतायाः अन्तर्गतं ‘सण्डे ऑन साइकिल’ इति कार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे कॉमनवेल्थस्वर्णपदकविजेत्री पहलवाना बबीता फोगाट मुख्यातिथिरूपेण सहभागी अभवत्।
युवकार्यक्रमक्रीडामन्त्रालयस्य भारतसरकारस्य अधीनस्थेन भारतीयक्रीडाप्राधिकरणेन (साई) धर्मशालास्थितराष्ट्रियोत्कृष्टताकेन्द्रेण आयोजितस्य अस्य विशेषअभियानस्य विषयः ‘कॉमनवेल्थगेम्स-२०३० इत्यस्य प्रारम्भः’ इति निर्धारितः। कार्यक्रमस्य उद्देश्यं युवजनान् सामान्यजनांश्च स्वास्थ्यसजगतानां प्रति जागरूकान् कर्तुं तथा च वर्षे २०३० तमे भारते प्रस्तावितानां कॉमनवेल्थगेम्सस्य कृते जनसमर्थनं निर्मातुं आसीत्।
कार्यक्रमे कॉमनवेल्थस्वर्णपदकविजेत्री पहलवाना बबीता फोगाट तथा काङ्गडोपायुक्तेन ध्वजप्रदर्शनपूर्वकं कार्यक्रमस्य शुभारम्भः कृतः। ताभ्यां सह फिट इण्डिया एम्बेसडर दीपकमिश्रः अपि विशेषरूपेण उपस्थितः आसीत्। उभाभ्यां क्रीडकान् युवांश्च क्रीडासु प्रेरयित्वा स्वास्थ्यस्य, अनुशासनस्य, परिश्रमस्य च सन्देशः दत्तः। क्रीडकानां कृते अन्ताराष्ट्रियस्तरस्य धावकैः प्रशिक्षकैश्च सह संवादस्य तथा स्वक्रीडासम्बद्धचुनौतीनां विषये चर्चायाः अवसरः अपि प्रदत्तः।
अस्मिन् अवसरे भारतीयक्रीडाप्राधिकरणस्य क्षेत्रीयनिदेशकः शैलेन्द्रकुमारः (चण्डीगढ़) तथा काङ्गडाजिलाधीशः हेमराजबैरवा अपि विशेषातिथिरूपेण उपस्थितौ आस्ताम्। कार्यक्रमे शताधिकाः क्रीडकाः, प्रशिक्षार्थिनः, स्थानीयजनाश्च सहभागिनोऽभवन्। साइकिलरैलीद्वारा स्वस्थजीवनशैलीग्रहणस्य, नियमितव्यायामस्य, पर्यावरणसंरक्षणस्य च सन्देशः प्रदत्तः। अस्य अतिरिक्तं योगः तथा स्किपिंगरोप इत्यादीनां क्रियाकलापानाम् अपि आयोजनम् अभवत्।
अहमदाबादे २०३० तमे कॉमनवेल्थगेम्स देशस्य कृते गौरवस्य विषयः : बबीता फोगाटः
बबीता फोगाटः अवदत् यत् वर्षे २०३० तमे अहमदाबादे कॉमनवेल्थगेम्सस्य आयोजनं सम्पूर्णदेशस्य कृते गौरवसम्मानयोः विषयः अस्ति। तया उक्तं यत् भारते क्रीडासुविधानां तथा अधोसंरचनायाः क्षेत्रे गतवर्षेषु महान् परिवर्तनः अभवत्। तया उक्तं यत् पूर्वं क्रीडकानां विश्वस्तरीयप्रशिक्षणस्य सुविधानां च कृते दूरप्रदेशान् गन्तव्यं भवति स्म, किन्तु अधुना खेलो इण्डिया इत्यादियोजनानां माध्यमेन क्रीडकानां स्वक्षेत्रेष्वेव उत्तमप्रशिक्षणम्, उच्चप्रदर्शनकेन्द्राणि, आधुनिकप्रशिक्षणसुविधाश्च उपलब्धाः भवन्ति। बबीता फोगाट प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा केन्द्रीयक्रीडामन्त्रिणः मनसुखमाण्डवीयस्य नेतृत्वस्य प्रशंसां कृत्वा उक्तवती यत् सरकारः क्रीडकानां कृते टार्गेट ओलम्पिक पोडियम तथा खेलो इण्डिया इत्यादियोजनाभिः सुदृढं क्रीडापर्यावरणं निर्माति।
तया युवा-क्रीडकान् प्रति आह्वानं कृतं यत् अधुना सुविधानां काचिदपि न्यूनता नास्ति, अतः ते पूर्णपरिश्रमेण समर्पणेन च स्वप्रदर्शनस्य प्रति ध्यानं ददतु। तया विश्वासः व्यक्तीकृतः यत् आगामिकाले भारतीयक्रीडकाः अन्ताराष्ट्रियस्तरे अधिकाधिकानि स्वर्णपदकानि जित्वा देशस्य नाम प्रकाशयिष्यन्ति।
क्रीडासंस्कृतेः संवर्धनस्य प्रयासः : हेमराजबैरवा
काङ्गडोपायुक्तः हेमराजबैरवा अवदत् यत् अस्य आयोजनस्य मुख्योद्देश्यं समाजे क्रीडासु स्वास्थ्ये च प्रति जागरूकतां वर्धयितुम् अस्ति। तेन उक्तं यत् स्वस्थरूपेण स्थितिः केवलं व्यक्तिगतस्वास्थ्यस्य कृते एव न, अपितु देशे सुदृढक्रीडासंस्कृतेः विकासाय अपि आवश्यकम् अस्ति। तेन युवजनान् प्रति आह्वानं कृतं यत् ते क्रीडाः स्वजीवनस्य अङ्गरूपेण स्वीकरोतु, येन भारतं वैश्विकस्तरे सुदृढक्रीडाराष्ट्ररूपेण स्वपरिचयं स्थापयितुं शक्नुयात्।
Hindusthan Samachar / Dheeraj Maithani