Enter your Email Address to subscribe to our newsletters

लखनऊ, 24 मईमासः (हि.स.)। लखनऊनगरस्य महापौरा सुषमा खर्कवालः रविवासरे नगरनिगममुख्यालये फैजुल्लागञ्ज मतदानकेंद्रतः ललित किशोर तिवारी महोदयाय पार्षदपदस्य शपथं कारितवती। उच्चन्यायालयात् प्रकरणे विजयप्राप्तेः अनन्तरं महापौरा सुषमा खर्कवाल महोदया समाजवादीपार्टीपार्षदं ललित किशोर तिवारी महोदयं शपथं कारितवती।
अस्मिन् अवसरे नगरायुक्तः गौरव कुमार तथा अन्ये अधिकारिणः उपस्थिताः आसन्। इलाहाबाद उच्चन्यायालयेन ललित किशोर तिवारी महोदयाय शपथं न कारितवतीति कारणेन लखनऊमहापौरस्य सुषमा खर्कवालस्य सर्वे वित्तीयाधिकाराः स्थगिताः कृताः आसन्। ततः अनन्तरं रविवासरे महापौरया समाजवादीपार्टीपार्षदाय शपथं कारिता।
निकायनिर्वाचनम् २०२३ मध्ये समाजवादीपार्टीप्रत्याशी ललित किशोर तिवारी भारतीयजनतापार्टीप्रत्याशी प्रदीप शुक्लात् निर्वाचनं पराजितः अभवत्। प्रदीप शुक्ल महोदयेन शपथपत्रे स्वस्य द्वितीयविवाहस्य विषयः गोपितः आसीत्। न्यायालये शपथपत्रस्य पंजीयनं कृतम्। अन्ततः न्यायालयेन प्रदीप शुक्लस्य निर्वाचनं निरस्तं कृत्वा ललित किशोर तिवारी महोदयं पार्षदरूपेण घोषितुं आदेशः प्रदत्तः।
पार्षदः ललित किशोर तिवारी महोदयः उच्चन्यायालयस्य प्रति कृतज्ञतां प्रकट्य उक्तवान् यत् अस्मभ्यं न्यायः प्राप्तः। जनसामान्यानां समस्याः उत्थापयितुं प्रयत्नं करिष्यामि।---------------