सरसंघचालको डॉ. मोहन  भागवतश्चतुर्दिवसीये प्रवासे लखनऊं प्राप्नोत्
लखनऊ, 24 मईमासः (हि.स.)। राष्ट्रीय स्वयंसेवक संघस्य सरसंघचालकः डॉक्टर मोहन राव भागवत चतुर्दिवसीय-प्रवासाय लखनऊनगरम् आगतः। सरसंघचालकः सरस्वती कुंज निरालानगरस्थे प्रचलति पूर्वी उत्तरप्रदेश-क्षेत्रस्य कार्यकर्ता-विकास-वर्ग-प्रथम इत्यस्मिन् प्रशिक्षण
सरसंघचालक डॉक्टर मोहनराव भागवत फाइल फोटो


लखनऊ, 24 मईमासः (हि.स.)।

राष्ट्रीय स्वयंसेवक संघस्य सरसंघचालकः डॉक्टर मोहन राव भागवत चतुर्दिवसीय-प्रवासाय लखनऊनगरम् आगतः। सरसंघचालकः सरस्वती कुंज निरालानगरस्थे प्रचलति पूर्वी उत्तरप्रदेश-क्षेत्रस्य कार्यकर्ता-विकास-वर्ग-प्रथम इत्यस्मिन् प्रशिक्षणं प्राप्तुं आगतानां कार्यकर्तृणां प्रबोधनं करिष्यति। अस्मिन् वर्गे सरसंघचालकस्य बौद्धिकम् भविष्यति। सः प्रवचन-सत्रे अपि सहभागं करिष्यति। डॉ. मोहन राव भागवत २६ मई पर्यन्तं अस्मिन् वर्गे स्थितिं करिष्यति।

निरालानगरे प्रचलति कार्यकर्ता-विकास-वर्ग-प्रथम इत्यस्मिन् नेपाल-राष्ट्रं सहित अवध, कानपुर, गोरक्ष तथा काशी-प्रान्तेभ्यः २८९ कार्यकर्तारः प्रशिक्षणं प्राप्नुवन्ति। अस्य वर्गस्य वर्ग-कार्यवाहः देवेंद्र अस्थान, वर्ग-पालक-क्षेत्रस्य बौद्धिक-शिक्षण-प्रमुखः मिथिलेश नारायण तथा सह-वर्ग-कार्यवाहः रासबिहार नियुक्ताः सन्ति। तथा च क्षेत्र-प्रचारकः अनिलः पूर्णसमयं वर्गे उपस्थितः सन् योगदानं ददाति।

---------------

Hindusthan Samachar / Dheeraj Maithani