Enter your Email Address to subscribe to our newsletters

ग्वालियरजनपदः, 24 मईमासः (हि.स.)। संघ-लोक-सेवा-आयोगेन (यूपीएससी), नवदिल्लीद्वारा, अद्य रविवासरे सिविल-सेवा-प्रारम्भिक-परीक्षा-२०२५ इत्यस्याः आयोजनं क्रियते। मध्यप्रदेशस्य सर्वेषु जनपद-मुख्यालयेषु निर्धारितेषु परीक्षा-केन्द्रेषु एषा परीक्षा द्वयोः सत्रयोः आयोजिता भविष्यति। प्रथमं सत्रं प्रातः ९:३० वादनतः ११:३० वादनपर्यन्तं तथा द्वितीयं सत्रं मध्याह्नोत्तरं २:३० वादनतः ४:३० वादनपर्यन्तं संचालितं भविष्यति।
मध्यप्रदेशस्य ग्वालियरजनपदे एकविंशतिषु परीक्षा-केन्द्रेषु आयोजितायाम् अस्यां परीक्षायां सम्पूर्णतः षट्-सहस्र-द्विपञ्चाशत् (६६५२) अभ्यर्थिनः सम्मिलिष्यन्ति। तथा इन्दौरे सप्तविंशतिषु परीक्षा-केन्द्रेषु सम्पूर्णतः द्वादश-सहस्र-एक-शत-चतुर्-परीक्षार्थिनः (१२,१०४) अस्यामेव परीक्षायां सम्मिलिताः सन्ति। परीक्षायाः पारदर्शितां निष्पक्षतां च सुनिश्चेतुं संघ-लोक-सेवा-आयोगेन सर्वेषु केन्द्रेषु जैमर-यन्त्राणि स्थापितानि सन्ति।
संयुक्त-कलेक्टर विनोदः सिंहः अकथयत् यत् सर्वेषु परीक्षा-केन्द्रेषु परीक्षार्थिनां प्रवेशः परीक्षायाः आरम्भात् सार्धैकहोरा पूर्वम् आरभ्यते। परीक्षार्थिनां प्रवेशः आयोगेन प्रदत्तस्य प्रवेश-पत्रस्य मूल-पहचान-पत्रस्य च आधारेण भविष्यति। अभ्यर्थिभ्यः निवेदनम् अस्ति यत् ते समयात् पूर्वमेव परीक्षा-केन्द्रे प्राप्नुवन्तु।
अभ्यर्थिनः परीक्षा-केन्द्रे दूरवाणी, स्यूतं, कामपि तकनीकी-यन्त्रं च न नेतुं शक्ष्यन्ति। परीक्षा-केन्द्रे अभ्यर्थिनां कोऽपि वस्तुः न स्थास्यते। परीक्षा-कक्षे पादुका-उपानहौ धृत्वा प्रवेशः न दास्यते। पादरक्षादिकं धृत्वा गन्तुं शक्ष्यन्ति। पेयजलाय परीक्षार्थिभ्यः पारदर्शिकायाः जलकूप्या सह नयनस्य अनुमतिः भविष्यति।
परीक्षार्थिनः केवलम् आयोगेन प्रदत्तम् ई-प्रवेश-पत्रम्, लेखनी-अंकनीं, परिचय-पत्रम्, स्वचित्रस्य प्रतिलिपीः (यत्र प्रयोज्यम्), ई-प्रवेश-पत्रे दत्तेभ्यः निर्देशेभ्यः अनुसारेण च वस्तूनि परीक्षा-स्थाने सह नेतुम् अनुमताः भविष्यन्ति।
---------------
Hindusthan Samachar / अंशु गुप्ता