मध्यप्रदेशः केन्द्रीय राज्य मंत्री तोखन साहूः अद्य जबलपुर प्रवासे
जबलपुरम्, 24 मईमासः (हि.स.)। केन्द्रसर्वकारस्य आवास एवं शहरी कार्य राज्य मंत्री तोखन साहू अद्य रविवासरे एकदिवसीय प्रवासाय मध्यप्रदेशस्य जबलपुरनगरम् आगच्छति। सः अत्र समाजस्य एकस्मिन् कार्यक्रमे सहभागं करिष्यति तथा विकासकार्याणां समीक्षां करिष्यति।
केन्द्रीय राज्य मंत्री तोखन साहू


जबलपुरम्, 24 मईमासः (हि.स.)।

केन्द्रसर्वकारस्य आवास एवं शहरी कार्य राज्य मंत्री तोखन साहू अद्य रविवासरे एकदिवसीय प्रवासाय मध्यप्रदेशस्य जबलपुरनगरम् आगच्छति। सः अत्र समाजस्य एकस्मिन् कार्यक्रमे सहभागं करिष्यति तथा विकासकार्याणां समीक्षां करिष्यति।

जिलाप्रशासनेन निर्गतकार्यक्रमानुसारं, केन्द्रीयराज्यमंत्री तोखन साहूः प्रातः रेलमार्गेण जबलपुरनगरम् आगमिष्यति। ततः सः प्रातः ९ वादनात् स्मार्ट सिटी, स्वच्छ भारत मिशन, अमृत एवं प्रधानमन्त्री आवास योजना इत्येतासां योजनानां कार्याणां स्थलीय निरीक्षणं करिष्यति। केन्द्रीयराज्यमंत्री प्रातः ११ वादने अखिल भारतीय तैलिक साहू महासभायाः राष्ट्रिय कार्यकारिणी समितेः उपवेशने सहभागं करिष्यति तथा अपराह्णे २ वादनात् जबलपुर स्मार्ट सिटी, स्वच्छ भारत मिशन शहरी, प्रधानमन्त्री आवास योजना शहरी एवं अमृत योजना इत्येतासां कार्याणां समीक्षोपवेशने करिष्यति।

केन्द्रीयराज्यमंत्री साहूः सायं ४.१५ वादने प्रसिद्ध पर्यटनस्थलं भेड़ाघाटं गमिष्यति तथा सायं ५.३० वादने भेड़ाघाटात् जबलपुर विमानपत्तनाय प्रस्थानं करिष्यति। केन्द्रीयमन्त्री सायं ७.३० वादने जबलपुर विमानपत्तनात् वायुयानेन नवीनदिल्लीं प्रति प्रस्थानं करिष्यति।

---------------

Hindusthan Samachar / अंशु गुप्ता