एनएमडीसी-संस्थया दक्षिण-बस्तरस्य १७ ग्रामेषु ग्रीष्म-शिविरस्य आयोजनम्, १७०० बालकाः सहभागं करिष्यन्ति
नवदिल्ली, २४ मे-मासः (हि.स.)। राष्ट्रीय-खनिज-विकास-निगमेन (एनएमडीसी) दक्षिण-बस्तरस्य दन्तेवाड़ा-जनपदे जनजातीय-समुदायस्य बालकानां कृते १७ ग्रामेषु ग्रीष्म-शिविरस्य आयोजनं कृतम्। एतत् शिविरं २० मे-मासात् आरब्धम् अस्ति, यत् १५ जून-पर्यन्तं सञ्चलिष्यति
दंतेवाड़ा जिले के एक गांव में राष्ट्रीय खनिज विकास निगम (एनएमडीसी) के समर कैंप में गतिविधियों में भाग लेते बच्चे।


नवदिल्ली, २४ मे-मासः (हि.स.)। राष्ट्रीय-खनिज-विकास-निगमेन (एनएमडीसी) दक्षिण-बस्तरस्य दन्तेवाड़ा-जनपदे जनजातीय-समुदायस्य बालकानां कृते १७ ग्रामेषु ग्रीष्म-शिविरस्य आयोजनं कृतम्। एतत् शिविरं २० मे-मासात् आरब्धम् अस्ति, यत् १५ जून-पर्यन्तं सञ्चलिष्यति।

केन्द्रीय-इस्पात-मन्त्रालयस्य अनुसारम् अस्य प्रयत्नस्य अन्तर्गतं प्रायः १७०० बालकाः ग्रीष्मावकाशे अनुभवात्मक-शिक्षया, रचनात्मक-क्रियाभिः तथा क्रीडाभिः संयुक्ताः भविष्यन्ति। अधिकांश-ग्रामेषु गतिविधयः आरब्धाः सन्ति, बालकानां सङ्ख्यावृद्ध्यर्थं जागरूकता-अभियानम् अपि सञ्चाल्यते। अधुना प्रत्येकस्मिन् ग्रामे प्रतिदिनं ३० तः ४० बालकाः शिविरे सहभागं कुर्वन्ति।

शिविरे बालकाः प्रतिदिनं त्रि-चतुर-होरापर्यन्तं पठन-पाठनं, शिल्पकलां तथा सङ्गीत-कार्यशालासु भागं गृह्णन्ति। ततः अनन्तरं फ्रिस्बी, कबड्डी तथा खो-खो इत्यादयः क्रीडाः आयोजिताः भवन्ति। दिवसस्य समापनं पौष्टिक-अल्पाहारेण क्रियते।

एनएमडीसी-संस्थया उक्तं यत् ग्रामीण-क्षेत्रेषु रचनात्मक-शिक्षायाः अवसराः सीमिताः सन्ति, अतः एष: प्रयत्न: बालकानां प्रतिभायाः आकाङ्क्षाणां च संवर्धनस्य माध्यमं भविष्यति। संस्थया एतत् ग्रामाणां समग्र-विकासाय तथा वञ्चित-समुदायस्य बालकेषु सामाजिक-आत्मविश्वास-सम्बद्ध-क्षमतानां विकासाय महत्त्वपूर्णं पादक्षेपम् इति उक्तम्। ग्रीष्म-शिविरे बालकानां, अभिभावकानां तथा स्थानीय-समुदायस्य सहभागिता निरन्तरं वर्धते। आगामि-दिवसेषु अस्य प्रयत्नस्य अधिकं विस्तारं करिष्यते।

Hindusthan Samachar / Divya Ranjan